Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 190
________________ अवच. वीतराग. हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया। सर्वथैव विमुच्यन्ते जन्मिनः कर्मपचरात् ॥८॥ हित्वा० हे वीतराग! प्रसादनायै प्रसन्नताविधये यदैन्यं चाटु तद् हित्वा त्यक्त्वा एकयैवैकाकिन्यैव त्वदाज्ञया जन्मि-4 ॥८८॥ नो जीवाः कर्मपञ्जरात्कर्मरूपकाष्ठपञ्जरात् सर्वथैव निःशेषतया विमुच्यन्ते मुक्ता भवन्तीत्यर्थः॥८॥ इत्येकोनविंशतितमाज्ञास्तवप्रकाशावचूरिः ॥ १९॥ पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥१॥ विविधैः प्रकारैः प्रभु प्रसाद्य मनोभिप्रेतं प्रार्थयन्ति । पाद० हे वीतराग ! पदासनलुठन्मस्तके मयि गङ्गाया घोष इति | वल्लक्षणया ललाटे तव पादरजश्चिरमासंसारं निवसतां स्थिरीभवतु रजः कथम्भूतं? पुण्यपरमाणुक० पुण्यस्य ये परमाणवः पुद्गलास्तषां ये कणास्तदुपमं तत्सदृशं कोऽर्थः येषां भक्त्या भूलग्ने शिरसि प्रभुपादाग्ररजो विश्रान्तं तैः पुण्यं प्राप्तमेव ॥१॥ __ महशौ त्वन्मुखासक्ते हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥२॥ | मह० हे वीतराग!मम नयने त्वद्वदननिरीक्षके अप्रेक्ष्याणि प्रेक्षितुमयोग्यानि परस्त्रीकुदेवादीनि तेषां प्रेक्षणेन निभालनेन सुजातं मलं पापं हर्षाश्रुजलकल्लोलैः क्षणाक्षालयतामपनयताम् ॥२॥ त्वत्पुरो लुठनैर्भूयान्मालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥३॥ त्वत्पु० हे वीतराग! मम ललाटस्य तपस्विनः पूर्व त्वत्प्रणामवञ्चितत्वेन कृपास्पद (स्य) कृतोऽसेव्यानां प्रणामो येन स| तस्य तवाग्रे नमनैः किणावलिश्चिह्नपङ्किः प्रायश्चित्तनिष्पादनाहेतुर्भूयाद्भवतु ॥३॥ SACROGRAMCASTROGRAMMALS Jain Educatie For Private Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194