Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 191
________________ मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालोत्थामस दर्शनवासनाम् ॥ ४ ॥ म० हे वीतराग ! मम त्वदर्शनप्रमदोद्भवा रोमाञ्चकण्टका हर्षोत्कर्षेण चिरं स्थिरा इति गम्यं चिरं० अनन्तभवभ्रमणोपचितां कुशासनदुर्वासनां नुदन्तां व्यथोत्पादनेन निर्वासयतां, चिरोपचितो रोगश्चिरौषध सेवनेनैव विनश्यतीतिस्थितिः ॥४॥ त्वकान्तिज्योत्स्नासु निपीतासु सुधाखिव । मदीयैर्लोचनाम्भोजैः प्राप्यतां निर्निमेषता ॥ ५ ॥ त्वद्वऋ० हे वीतराग ! तव वदनेन्दोः कान्तिर्लवणिमा तस्य ज्योत्स्नासु स्पष्टतासु सुधास्विवामृतेष्विव निपीता वर्तमानकाले केति निपीयमानासु मत्सम्बन्धिभिर्नयननलिनैर्निर्निमेषता निष्पन्दता निश्चलता प्राप्यतामनुभूयतां योग्या ह्यमृतपायिनां निर्निमेषताऽमरत्वमित्येवं त्वलावण्यामृतपायिनोऽन्तरङ्गाया ज्ञानदृशः (अ) प्रतिपातित्वं भवत्वित्युक्तिलेशः॥५॥ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥ ६ ॥ वदा० हे वीतराग ! मम नेत्रे त्वन्मुखविलोकन सुखलालसे भूयास्तां, पाणी त्वत्पूजापरौ, त्वद्गुणश्रवणपरायणौ कण भूयास्तामिति क्रिया सर्वदेति क्रियाविशेषणं ममेति सर्वत्र योज्यानि ॥ ६॥ कुण्ठापि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि स्वस्त्येतस्यै किमन्यया ॥ ७ ॥ Mar! भारती वाकुण्ठापि सर्वत्र स्खलन्त्यपि यदि त्वद्गुणवर्णनं प्रति सोत्कण्ठा स्पृहयालुरस्ति तचें तस्यै भारत्यै स्वस्ति कल्याणमस्तु । अन्यया त्वगुणपराङ्मुखया किं ? न किञ्चिदित्यर्थः ॥ ७ ॥ Jain Education International For Private & Personal Use Only * jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194