Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 192
________________ वीतराग. ॥८९॥ CREARRORORSCANCINGC AUGARCAN तव प्रेष्योऽलिम दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यख नाथ नातः परं ब्रुवे ॥८॥ तव० स्वामिना स्वार्थसिद्धये यत्र तत्र प्रेष्यत इति प्रष्योऽहं तव प्रेष्योऽस्मि, दासः क्रयक्रीतस्त्रिशूलाद्यऽङ्कितोस्मि, सेवकः सम्यक्स्वामिसेवायां निपुणोऽस्मि, तथा किङ्करः समादिशत किङ्करोमीति वचश्चतुरोऽस्मि। एते हि स्वपरिचर्यानु*सारेण फलमिच्छन्त्यतस्त्वमोमित्यक्षरमात्रमुदीर्य मदीयोऽयमिति मां प्रतिपद्यस्व स्वीकुरु, हे नाथाऽतस्त्वद्वचनादपरं धन-1 | स्वर्णादि न ब्रुवे न याचेऽनेकार्थत्वाद्धातूनामित्यर्थः ॥ ८॥ श्रीहेमचन्द्रप्रभवादीतरागस्तवादितः । कुमारपालभूपालः प्रामोतु फलमीप्सितम् ॥९॥ श्रीहे. अयं प्राग्व्याख्यात एवेति ॥९॥ विंशतितमाशी:प्रकाशावचूरिः समाप्ता ॥२०॥ चश्चच्चन्द्रकुलं सदोदिततपापक्षाख्यबिम्बोल्लसन्मार्तण्डोपमसोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् ॥ श्रीमानस्ति वि४|शालराजसुगुरुर्विद्यानदीसागरस्तत्पादप्रणतोऽस्म्यलंस्तुतिसखा जैनस्तुतेः पञ्जिकाम् ॥१॥ सह पञ्चविंशदक्षरसपादषट्शत-18| मिताजनिष्ट सुगमेयम् । वर्षे तिथिरविसङ्खये १५१२ शितिपक्षे तपति गुरुपुष्ये॥इति विंशतिप्रकाशानां पञ्जिका समाप्ता॥ P८९॥ ॥ समाप्तोऽयं ग्रन्थः॥ Jan Educat For Private Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194