Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वीतराग.
॥८४॥
Jain Educatio
रागा० हे वीतराग! भुजङ्गविषाक्रान्तोऽहं यद्वैशसमसमञ्जसं कर्माकार्ष कृतवान् तत्तत्वाग्रे वक्तुमपि न शक्नोमि । अतो मे मम प्रच्छन्नप्रापतां प्रच्छन्नाऽकृत्यतां धिगस्तु ॥ ३ ॥
क्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयैवाहं कारितः कपिचापलम् ॥ ४ ॥ क्षणं० हे वीतराग ! क्षणं कदाचित्संसारसुखादावासक्तः, क्षणं मुक्तः सर्वत्र निर्लोभः, क्षणं क्रोधवान्क्षणमुपशमवानेवमहं रागादिभिः कौतुकेनैव मर्कटचापलं कारितः ॥ ४ ॥
प्राप्यापि तव सम्बोधिं मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः ॥ ५ ॥ प्रा० हे नाथ ! तब सम्बोधिं धर्मविधिं प्राप्यासाद्यापि मनोवचनकायव्यापारजातैर्दुराचारैर्मया शिरसि मस्तकेऽग्निरेव ज्वालितो दुर्गतिदुःखमुपार्जितमित्यर्थः ॥ ५ ॥
त्वय्यपित्रातरि त्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे हियते हताशो हा हतोऽस्मि तत् ॥ ६॥ त्वय्य. हे त्रातस्त्वय्यपि त्रैलोक्यरक्षाक्षमे त्रायके सति यन्मम ज्ञानदर्शनचारित्रत्रयं मोहादिवैरिभिर्हियते मुध्यते तदहं | हेति खेदे हताशः प्राणाधिकरत्नत्रयहरणेन हतोऽस्मि व्यापादितोऽस्मि ॥ ६॥
भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः । तत्तवाङ्गौ विलग्नोऽस्मि नाथ ! तारय तारय ॥ ७ ॥ भ्रान्त० हे वीतरागाहं तीर्थानि लौकिकलोकोत्तराणि भ्रान्तो गतस्तेषु त्वमेव मया संसारतारणक्षमो ज्ञातस्ततस्तव | पादे विलग्नोऽस्मि । हे नाथातः कारणात्त्वं मां तारय तारय संसारसागरान्निस्तारय निस्तारयौत्सुक्यतो वीप्साऽत्र ॥ ७ ॥
tional
For Private & Personal Use Only
अवचू.
॥८४॥
w.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194