Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 165
________________ विद्यमानानां प्रमाणानां युक्तीनामभावात् ताः काश्चन युक्तयो न सन्ति याभिनित्यानित्ये विरोधादयः साध्यन्ते विरु० हियस्माद्विरुद्धानां कृष्णश्वेतादीनां वर्णानां, योगः सङ्करो, मेचकेषु शबलेषु, वस्तुषु पटादिषु, दृष्टः प्रत्यक्षेणोपलब्धः ॥७॥3 | विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥ प्रभोः पुरः परतीथिकानां यथास्थितं स्वरूपं विज्ञप्य क्रुद्धः प्रभुर्द्विषां सेवकानामपि न हित इति पुनः प्रसादनाय प्रकारान्तरेण विज्ञपयन्ति । विज्ञा० विज्ञानस्यैकमाकारं स्वरूपं, नाना विचित्रा य आकारा घटादीनां तैः करम्बितं मिश्रमि च्छन्नभिलषन् , तथागतो बौद्धोऽनेकान्तं स्याद्वादं, न प्रतिक्षिपेदुत्थापयेत्कथम्भूतः! प्राज्ञो ज्ञाता, प्रकर्षणाज्ञो मूर्योऽपि ते यतः स्याद्वादं स्वीकुर्वस्त्वां नोपास्ते ॥ ८॥ चित्रमेकमनेकश्च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥९॥ | चित्र एक चित्रं रूपमनेकमनेकाकारमयं, प्रामाणिकं प्रमाणसिद्धं, वदन यौगो नैयायिको, वैशेषिकोऽप्यनेकान्तं नाद प्रतिक्षिपेत् ॥९॥ इच्छन्प्रधानं सत्त्वायैर्विरुद्धैगुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ इच्छ० तथा हेवीतराग! प्रधान प्रकृति, सत्त्वाद्यैः सत्त्वरजस्तमोलक्षणैर्विरुद्धैगुणैर्गुम्फित मिश्रितमिच्छन् सङ्खचावतां विदुषां मुख्यः सालयोऽनेकान्तं न प्रतिक्षिपेत् ॥१०॥ विमतिसम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥११॥ For Private Personal Use Only Fiww.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194