Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 177
________________ Jain Education त्यक्त्वा, श्लथत्वेनैव स्वभावेनैव मनःशल्यं मनोरूपशल्यं, वियोजितं सदप्यसदिव विहितं निरुपयोगित्वादन्योऽपि यः शरीरान्नाराचादि वियोजयति स चेष्टानिरोधेन श्लथाङ्गः स्यात् ॥ १ ॥ संयतानि नचाक्षाणि नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः ॥ २ ॥ संय• हे वीतराग! त्वयाऽक्षाणीन्द्रियाणि न संयतानि बलान्नियन्त्रितानि बलाद्वध्यमानान्यदृष्टविषयस्वरूपत्वात्सकौतुकानि नियन्त्रणां न प्रतिपद्यन्ते न च त्वया तान्युच्छृङ्खलितानि लौल्येन प्रवर्त्तितानीत्यमुना प्रकारेण सम्यक् प्रतिपदा सव्यबुद्ध्या त्वयेन्द्रियजयः कृतोऽयं च सविशेषणकर्मणां चरम देहानामेव प्रकारः, शेषैस्तु सर्वबलेनापि यतनीय मिन्द्रियजये ॥२॥ योगस्याष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोप्येष तव सात्म्यमुपेयिवान् ॥ ३ ॥ योग० हे वीतराग ! योगस्याष्टाङ्गता यम १ नियम २ आसन ३ प्राणायाम ४ प्रत्याहार ५ धारणा ६ ध्यान ७ समाधि ८ लक्षणाऽन्यशास्त्रेषु निरूप्यमाणा । नूनमिवार्थे प्रपञ्च इव विस्तर इव प्रतिभासतेऽन्यथा कथमेष योगस्तव जन्मावधि सात्म्यं सहजतामुपेयिवानागतः कोऽर्थ आसनादिवाह्यविस्तरं विनैव तव परमज्ञानवैराग्यादिरूपो योगः सहज एव ॥ ३ ॥ विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि खामिन्निदमलौकिकम् ॥ ४ ॥ विष० हे वीतराग ! ते तव चिरमन्तकालं यावत्परिचितेष्वपि शब्दादिषु विरागोऽनासङ्गोऽस्ति योगे जन्मावध्यदृष्टेपि | सात्म्यं हे स्वामिन्! इदं पूर्वोक्तचरितमलौकिकं लोकाविषयम् ॥ ४ ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194