Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ वीतराग. ॥८०॥ Jain Educate सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नासि ! विरागवान् ॥ ६ ॥ सुखे सुखे दुःखे भवे मोक्षे यदा त्वमुदास्यं माध्यस्थ्यमीशिषे करोषि तदापि तव वैराग्यमेवास्तीतिहेतोस्त्वं कुत्र विरागवान्नास्यपि तु सर्वत्र ॥ ६ ॥ दुःखगर्भे मोहगर्भे वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं त्वय्ये कायनतां गतम् ॥ ७ ॥ दुःख० हे वीतराग ! दुःखगर्भे स्त्रीविरहादिभवे, मोहगर्भे कुशाग्रप्रणीताध्यात्मलव श्रवणाद्राज्य त्यागादिरूपे, वैराग्ये परे परतीर्थिका निष्ठिताः निलीनास्तु पुनर्ज्ञानगर्भं यथास्थित संसारस्वरूपावगमोद्भवं वैराग्यं त्वय्येकायनतामेकीभावं गतं प्राप्तम् ॥ ७ ॥ औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८ ॥ औदा० हे वीतराग! माध्यस्थ्येऽपि नित्यं निखिलजगदुपकर्त्रे तायिने पालकाय, परमात्मने परमब्रह्मरूपाय वैराग्यतत्पराय, तुभ्यं नमोऽस्तु ॥ ८ ॥ इति द्वादशवैराग्यस्तव प्रकाशस्यावचूरिः ॥ १२ ॥ अनाहूत सहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥ १ ॥ सर्वत्र स्वेच्छाप्रवृत्तिं दर्शयन्ति प्रभोः - अना० हे वीतराग ! त्वं मुक्तिपथि यातां जीवानामनाहूतसहायोऽनाकारित एव सखा त्वमका० स्वार्थी विना हितकरस्त्वमप्रार्थित एव साधुः परकार्यकरस्तथा सम्बन्धं स्वाजन्यं विना बान्धवोऽसि ॥ १ ॥ For Private & Personal Use Only अवचू. ॥८०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194