Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 172
________________ वीतराग. ॥७९॥ Jain Education रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥ ६ ॥ • वीतराग! त्या रागादिषु नृशंसेन निर्दयेन, सर्वात्मसु सर्वजीवेषु, कृपालुना दयावता, भीमाः प्रतापादयः, कान्ताः शमादयस्तैर्गुणा यस्य तेनोच्चैरतिशायि साम्राज्यं साधितं स्वीकृतम् ॥ ६ ॥ सर्वेसर्वा माsन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः ॥ ७ ॥ सर्वे० हे वीतराग ! सर्वे दोषाः सर्वात्मनाऽन्येषु हरादिषु सन्ति त्वयि पुनर्गुणाः सर्वे सर्वात्मना सन्तीयं स्तुतिस्तव चेद्यदि मिथ्याऽसत्या, स्यात् तत्तर्हि सभासदः सभ्याः प्रमाणं सत्यं स्यात्तदा त एव वदन्तु ॥ ७ ॥ महीयसामपि महान्महनीयो महात्मनाम् । अहो मे स्तुवतः खामी स्तुतेर्गोचरमागमः ॥ ८ ॥ अहो इत्याश्च ! स्तुवतो मे मम महत्तरेभ्योऽपि महानुभावः महात्मनामिन्द्रादीनां महनीयः पूज्यः स्वामी स्तुतेगोचरं विषयमागमः प्राप्तः ॥ ८ ॥ इत्येकादशप्रकाशस्यावचूरिः ॥ ११ ॥ भ्यासादः पूर्व तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म तत्सात्मीभावमागमत् ॥ १ ॥ प्रभोरियत्सम्पत्प्राभ्युपायं प्रकटयन्ति - पव० हे वीतराग ! त्वं प्राग्भवे वैराग्यं पटुभिः स्पष्टैः, अभ्यासादरैः सेवनासा| तत्यैस्तथा आहरः स्वात्मन्यानीतवान्, यथेह जन्मनि तीर्थङ्करभवे आजन्म जननावधि, तद्वैराग्यमात्मीभावं सहजभावमागमत् प्राप ॥ १ ॥ For Private & Personal Use Only अवचू. ॥७९॥ ainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194