Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 170
________________ बीतराग. ॥७८॥ Jain Education द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्धता परा या च या चोच्चैश्चक्रवर्त्तिता ॥ ६ ॥ द्वयं० हे भगवन् ! तत्र द्वयं विरुद्धमन्यस्य कस्यचिद्धरादेनैवास्ति तद्वयं किमित्याहुः - नि० या परोत्कृष्टा निर्ग्रन्थता निरीहतैकतोऽपरतश्वोश्चैरतिशयेन धर्मचक्रवर्तित्वमिति ॥ ६ ॥ नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्र को वा वर्णयितुं क्षमः ॥ ७ ॥ arrot atara ! हर्निशं कर्मवश तो वर्षकोटा कोटीरसङ्ख्या दुःखमनुभवन्ति न कदाचिद्विश्रामस्ते नारका अपि यस्य | तव कल्याणपर्वसु च्यवनादिकल्याणकेषु मुहूर्त्तमुद्योतवेदनोपशमेन मोदन्ते हर्षमनुभवन्ति, तस्य तव शुचि चारित्रं (त्र्यं) | चरितं वर्णयितुं व्याकर्तु को बृहस्पत्यादिरपि क्षमः समर्थः ॥ ७ ॥ शमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ८ ॥ शमो० हे वीतराग ! बहु किं ? तव शमः समताश्चर्यकारी, रूपमद्भुतं, सर्वजीवेषु दया कृपाद्भुता, सर्वेषामद्भुतानामा|श्चर्याणां निधीशाय महानिधानाय भगवते ऐश्वर्यादिषङ्कवते तुभ्यं नमोऽस्तु ॥ ८ ॥ इति दशमप्रकाशावचूरिः ॥ १० ॥ निघ्नन्परीषहचमूमुपसर्गान्प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां कापि वैदुषी ॥ १ ॥ अथाऽचिन्त्यमाहात्म्यमाहुः । निघ्नन्० हे वीतराग! त्वं परि समन्तात्रिकरणशुद्ध्या सह्यन्ते साधुभिरिति परीषहास्तेषां For Private & Personal Use Only अवचू. ॥७८॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194