Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 168
________________ वीतराग. ॥७७॥ Jain Education निशि दीपोsagat arपं मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं त्वत्पादाजरजःकणः ॥६॥ निशि० हे वीतरागाऽयं त्वत्पादान० त्वच्चरणरेणुकणः, कलौ दुरापो दुर्लभः, यथा रात्रौ प्रदीपः, समुद्रे द्वीपं मरौ जङ्गलदेशे वृक्षः, शीतकाले शिखी ॥ ६ ॥ युगान्तरेषु भ्रान्तोऽस्मि त्वद्दर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वद्दर्शनमजायत ॥ ७ ॥ युगा • हे वीतरागास्म्यहं त्वद्दर्शनविनाकृतस्त्वच्छासनरहितः कृतयुगादिषु भ्रान्तः संसारारण्ये तेन कलये नमोऽस्तु यत्र त्वद्दर्शनमजायत त्वं दृष्ट इत्यर्थः ॥ ७ ॥ बहुदोषो दोषहीनात्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रत्नतः ॥ ८ ॥ बहु० हे वीतरागाष्टादशदोषरहितात् त्वत्तो बहुदोषोऽसत्यमात्सर्यादियुक्तः कलिरशोभत इव यथा विषयुक्तो भुजगेशो विषहराद्वलात् शोभते ॥ ८ ॥ इति नवमप्रकाशावचूरिः ॥ ९ ॥ मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि प्रसीद् भगवन् ! मयि ॥ १ ॥ हे भगवन्! मत्प्रसत्तेर्मम मनःप्रसन्नतानुसारेण त्वत्प्रसादः स्यात् तदनुसारेण च मे मनःप्रसत्तिरित्यमुना प्रकारेणोत्पन्नमन्योन्याश्रयं भिन्धि स्फोटय, मयि मद्विषये प्रसीद तुच्छां मत्प्रसत्तिमवगणय्य प्रागेव प्रसादं कुरु त्वयि प्रसन्ने मत्प्रसत्तिरवश्यं भविष्यतीत्यर्थः ॥ १ ॥ For Private & Personal Use Only अवचू. ॥७७॥ ainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194