Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
त्वयि दोषत्रयात्रातुं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयोऽपि त्रिदिवौकसः॥५॥ त्वयि० हेवीतराग ! त्वयि त्रैलोक्यं दोषत्रयान्मनोवाक्कायलक्षणाद्रागद्वेषमोहरूपाद्वा त्रातुं रक्षितुं प्रवृत्ते त्रयोऽपि वैमा| निकज्योतिष्कभवनपतयस्त्रिदिवौकसो देवाः प्राकारत्रयं रत्नस्वर्णरूप्यमयं चक्रुर्दुर्गयोगेन हि रक्षा सुसाध्या ॥५॥
अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं तामसास्तिग्मरोचिषः ॥६॥ ___ अधो० हेवीतराग! तव धान्यां पृथ्व्यां विहरतः कण्टका वदर्यादीनां दुर्जना अप्यधोमुखान्यग्मुखाः। दृष्टान्तमाहतिग्मरोचिषो रवेस्तामसास्तमसां समूहा अन्धकारकारिणो घूकादयो वा किं संमुखा भवेयुरपितु न भवन्त्येव ॥६॥
केशरोमनखश्मश्रु तवावस्थितमित्ययम् । बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः ॥७॥ __केश. हेवीतराग ! केशाः शिरोरुहा, रोमाण्यपरोपाङ्गसम्भवानि, नखाः करचरणभवाः, श्मश्रु कूर्च समाहारद्वन्द्वः तव केशरोमनखश्मश्रु अवस्थितं दीक्षाग्रहणावसरे यथा समारचितं भवति तत्तथैवावतिष्ठते न वर्द्धत इत्यर्थः। इत्ययं बाह्योऽपि योगमहिमा परैस्तीर्थकरैर्हरिहरादिभिर्नाप्तः नासादितः। अन्तरङ्गस्तु सर्वाभिमुख्येत्यादिस्तवोक्तौ तु (क्तस्तु) दूरे ॥७॥ - शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः। भजन्ति प्रातिकूल्यं न त्वद्ने तार्किका इव ॥ ८॥
शब्द० हेवीतराग! शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचरा विषयास्त्वदने तार्किका इव बौद्धनैयायिकादय इव प्रातिकूल्यं विपरीतभावं न भजन्ति ॥ ८॥
त्वत्पादावृतवः सर्वे युगपत्पर्युपासते । आकालकृतकन्दर्पसाहायकभयादिव ॥९॥
RRRRRRRRAAK
JainEducation
For Private
Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194