Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 159
________________ कामरागलेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥१०॥ काम० हेतुमाह-हेवीतराग! यतः कामरागः स्यादिविषयः स्नेहरागः पुत्रादिविषयस्तैरीपत्करनिवारणौ सुखनिवायौं तु | परं दृष्टिरागो मदीयमिति लक्षणः पापीयान् क्लिष्टतरः सतामपि दुरुच्छेदः कष्टपरिहार्यः॥१०॥ प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ ___ अथ परदेवानां तद्भक्तानामपि मौढ्यं दर्शयन्ति-प्र० हेवीतराग! तवास्यं वदनकमलं प्रसन्नमस्ति, दृशौ मध्यस्थे रागद्वेषाऽविप्लुते स्तः, वचो वचनं लोकम्पृणं लोकप्रियमस्ति हितसत्यत्वात् । इत्यमुना प्रकारेण प्रीतिपदे प्रेमस्थानेऽपि 8 त्वयि बाढमत्यर्थ मूढाः परतीर्थिका उदासतेऽनादृतवन्तः॥११॥ तिष्ठेद्वायुवेदद्रिचलेजलमपि कचित् । तथापि ग्रस्तो रागाद्यैर्नासो भवितुमर्हति ॥ १२ ॥ स्वहृदयनिर्णयमाहुः-तिष्ठे० क्वचिद्वायुस्तिष्ठेस्थिरीभवेदद्रिद्भवेत् द्रवतां श्रयति, जलमपि ज्वलेदग्निवद्दहति, तथापि रागाद्यैर्ग्रस्त आक्रान्त आप्तः सम्यक्तत्त्वज्ञो भवितुं नाहति । त्वां विनाऽन्यदेवेषु रागादिरहितत्वं देवत्वं नास्तीति भावः ॥१२॥ इति षष्ठप्रतिपक्षनिरासप्रकाशावचूरिः ॥ ६॥ धर्माधर्मों विना नाङ्गं विनाङ्गेन मुखं कुतः । मुखादिना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥ अन्यदप्यसङ्गतं तेषु बहिति दर्शयन्ति-धर्मा० धर्माधों पापपुण्ये विनाझं शरीरं न स्यात् न स्यादेव, मुखाद्विना For Private & Personal Use Only A jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194