Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 152
________________ अव वीतराग. ॥६९॥ त्वत्पा० हेवीतराग ! त्वत्पादौ सर्वे वसन्ताद्या ऋतवो युगपदेकवारं पर्युपासते आश्रयन्ति, समवसरणसमीपस्थवनेषु| सर्वर्तुकपुष्पसम्भवात् पुष्पप्रकरे सर्वर्तुकपुष्पसम्भवाद्वा कुतः आकालमासंसारं तैः कृतं यत्कन्दर्पस्य भगवत्प्रतिपक्षस्य | साहायक साहाय्यं तेन यद्भयं तस्मादिव । श्लोकद्वयेन एकोऽतिशयः॥९॥ सुगन्ध्युदकवर्षेण दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शी पूजयन्ति भुवं सुराः ॥१०॥ सुगं० हेवीतराग! भावित्वत्पादसंस्पर्शा भावी तव पादयोः स्पर्शो व्याख्याऽवसरे षड्घटिकावधि यस्यास्तां भुवं सुराः पूजयन्ति, केन? सुगं० सुरभिजलवर्षणेन, पुनः केन? दिव्य स्वस्तिकश्रीवत्सादिरचनाविशेषेण देवै रचितत्वादिव्यो यः पञ्चवर्णपुष्पप्रकरस्तेन । अतिशयद्वयम् ॥ १० ॥ जगत्प्रतीक्ष्य त्वां यान्ति पक्षिणोऽपि प्रदक्षिणम् । का गतिमहतां तेषां त्वयि ये वामवृत्तयः॥११॥ जगत्प० हे जगत्प्रतीक्ष्य त्रैलोक्यपूज्य! पक्षिणो जम्बूचाषमयूराद्या अज्ञाना अपि प्रदक्षिणं दक्षिणावर्त्त यथा सुशकुन|मित्यर्थः त्वां यान्ति तेनेतिगम्यं तेषां मांनुष्यविवेकशास्त्रादिना महतां का गतिर्नरकगतानां तेषां निर्गमोऽसम्भाव्य इत्यर्थः। के ते? ये त्वयि वामवृत्तयः वामा प्रतिकूला वृत्तिवर्त्तनं येषां ते प्रतिपक्षा इत्यर्थः ॥११॥ पञ्चेन्द्रियाणां दौःशील्यं क भवेद्भवन्तिके । एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥१२॥ पश्च० भगवत्समीपे पञ्चेन्द्रियाणां संज्ञानां मनुष्यादीनां दौःशील्यं दुष्टत्वं व भवेत्? न भवेदितियावद्यतः कारणादेके|न्द्रियोप्यनिलो वातः प्रतिकूलतां मुश्चति पृष्ठतःस्फुरणेन ॥ १२॥ ॥६९॥ Jain Education in For Private & Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194