Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૫૮
(२) वज्रस्वामिमहर्षिणा (A) वज्रस्वामी - पूर्ववत् ।
(B) महर्षिः - पूर्ववत् ।
(C) वज्रस्वामी चासौ महर्षिश्च इति वज्रस्वामिमहर्षि:, तेन वज्रस्वामिमहर्षिणा। (वि. उत्त.क.)
-
(३) शय्यातरोत्तम: - (A) शय्यातरः - पूर्ववत् । (B) शय्यातरेषु उत्तमः इति शय्यातरोत्तमः । (स.त.पु.) विद्यापटोपविष्टस्ते, यान्तेः साद्रिसरित्पुराम् । सर्वे विलोकयामासुः, करामलकवन्महीम् ॥३३०॥ अन्वय :- विद्यापटोपविष्टाः यान्तः ते सर्वे साद्रिसरित्पुरां महीं करामलकवत् विलोकयामासुः ।
-
समास :- (१) विद्यापटोपविष्टा: – (A) विद्यया (कृत:) पट: इति विद्यापट: । (तृ.त.पु.)
(B) विद्यापटे उपविष्टाः इति विद्यापटोपविष्टाः ।
(स.त.पु.)
(२) साद्रिसरित्पुराम् – (A) अद्रयश्च सरितश्च पुरश्च इति अद्रिसरित्पुरः । (इ.द्व.)
(B) सह अद्रिसरित्पूर्भिः वर्तते या सा इति साद्रिसरित्पुरा, तां साद्रिसरित्पुराम् । ( सह. ब. व्री.)
(३) करामलकवत् - (A) करे स्थितम् इति करस्थितम् । (स.त.पु.)
(B) करस्थितम् आमलकम् इति करामलकम् । (म.प.लो.क.)

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204