Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 196
________________ ૧૮૭ (३) विविधर्द्धिभिः - विविधाः ऋद्धयः इति विविधर्द्धयः, ___ताभिः विविधर्द्धिभिः । (वि.पू.क.) अस्थापयच्च तमध्ये, श्रीदेव्यैर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि, तस्य पार्श्वेषु तुन्यधात् ॥३७७॥ अन्वयः- तन्मध्ये च श्रीदेव्यर्पितम् अम्बुजम् अस्थापयत् तस्य पार्श्वेषु तु विंशतिं पुष्पलक्षाणि न्यधात् । समासः- (१) तन्मध्ये - तस्य मध्यम् इति तन्मध्यम्, तस्मिन् तन्मध्ये । (ष.त.पु.) (२) श्रीदेव्यर्पितम् - (A) श्रीदेवी-पूर्ववत् ।। (B) श्रीदेव्या अर्पितम् इति श्रीदेव्यर्पितम् तद् ___ श्रीदेव्यर्पितम् । (तृ.त.पु.) (३) अम्बुजम् - पूर्ववत् ।। (४) पुष्पलक्षाणि - पुष्पाणां लक्षाणि इति पुष्पलक्षाणि, __तानि पुष्पलक्षाणि । (ष.त.पु.) स्मरति स्म तदा वज्रो, भगवाञम्भकामरान् । ते वज्रं वज्रिणमिवे, तत्क्षणीच्चोंपतस्थिरे ॥३७८॥ अन्वयः- तदा भगवान् वज्रः जृम्भकामरान् स्मरति स्म ते च वज्रिणम् इव वजं तत्क्षणात् उपतस्थिरे । समासः- (१) जृम्भकामरान्- जृम्भकामराः - पूर्ववत्, तान् जृम्भकामरान्। (२) वज्रिणम् - वज्रः अस्ति यस्य इति वज्री, तं वज्रिणम् । (तद्धित) (३) तत्क्षणात् - स चासौ क्षणश्च इति तत्क्षणः, तस्मात् तत्क्षणात् । (वि.पू.क.) ....

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204