Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 197
________________ ૧૮૮ छत्रस्य॒वाम्बुजस्याँधो , धनगिर्यामभूर्मुनिः । निषद्य व्योमयानाय, विमानवरमादिशत् ॥३७९॥ अन्वयः- धनगिर्यात्मभूः मुनिः छत्रस्य इव अम्बुजस्य अधः निषद्य विमानवरं व्योमयानाय आदिशत् । समासः- (१) अम्बुजस्य - पूर्ववत् । (२) धनगिर्यात्मभूः - (A) आत्मभूः - पूर्ववत् । (B) धनगिरेः आत्मभूः इति धनगिर्यात्मभूः । (ष.त.पु.) (३) व्योमयानाय - व्योम्नि यानम् इति व्योमयानम्. तस्मै व्योमयानाय । (स.त.पु.) (४) विमानवरम् - विमानश्चासौ वरश्च इति विमानवरः, तं __ विमानवरम् । (वि.उत्त.क.) तस्मिन् विमाने चलिते, जृम्भको अपिँ नाकिनः । चेलुर्विमानारूढास्ते, गीतवाद्यादिपूर्वकम् ॥३८०॥ अन्वयः- तस्मिन् विमाने चलिते विमानारूढाः ते जृम्भकाः नाकिनः अपि गीतवाद्यादिपूर्वकं चेलुः । समासः- (१) विमानारूढाः - विमाने आरूढाः इति विमानारूढाः । (स.त.पु.) (२) गीतवाद्यादिपूर्वकम् - (A) गीतं वाद्यम् आदौ यस्मिन् तद् इति गीतवाद्यादि । (व्यधि.ब.प.ब.वी.) (B) गीतवाद्यादिना पूर्वकम् इति गीतवाद्यादि पूर्वकम् तद् गीतवाद्यादिपूर्वकम् । (तृ.त.पु.)

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204