Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 199
________________ ૧૯૦ (३) उत्पुप्लुषोद्यता:- (A) उत्प्लोतुम् इच्छा इति उत्पुप्लुषा । शंसि - प्र - प्रत्ययात् ५/१/१०५ अ प्रत्ययः । (B) उत्पुप्लुषया उद्यता: इति उत्पुप्लुषोद्यताः । (तृ.त.पु.) सप्रभावमंहो ! बौद्धदर्शनं प्रेक्ष्यं नाकिनः । बुद्धपूजार्थमायान्ति, श्रीबुद्धाय नमोनमः ॥३८३ ॥ अन्वयः - अहो ! बौद्धदर्शनं सप्रभावं प्रेक्ष्य नाकिनः बुद्धपूजार्थम् आयान्ति । श्रीबुद्धाय नमः नमः | समास:- (१) सप्रभावम् प्रभावेन सह वर्तते यद् तद् इति - सप्रभावम्, तद् सप्रभावम् । ( सह.ब.व्री) (२) बौद्धदर्शनम् - (A) बौद्धा: - पूर्ववत् । (B) बौद्धानां दर्शनम् इति बौद्धदर्शनम्, तद् बौद्धदर्शनम् । (ष.त.पु.) (३) बुद्धपूजार्थम् (A) बुद्धस्य पूजा इति बुद्धपूजा । (ष. त.पु.) (B) बुद्धपूजाया: अर्थम् इति बुद्धपूजार्थम् । (ष.त.पु.) (४) श्रीबुद्धाय - (A) श्रिया युक्तः इति श्रीयुक्त: । (तृ. त.पु.) (B) श्रीयुक्त: बुद्ध: इति श्रीबुद्ध:, तस्मै श्रीबुद्धाय । (म.प.लो.क.) ११ तेषां च वदतामेवम्, वज्रऽर्हत्सदनं ययौ " । विमानैर्दर्शयन् व्योम्नि, गान्धर्वनगरश्रियम् ॥३८४॥

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204