Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 200
________________ ૧૯૧ अन्वयः- तेषां च एवं वदतां व्योम्नि विमानैः गान्धर्वनगरश्रियं दर्शयन् वज्रः अर्हत्सदनं ययौ। समासः- (१) अर्हत्सदनम् - अर्हतां सदनम् इति अर्हत्सदनम्, तद् अर्हत्सदनम् । (ष.त.पु.) (२) गान्धर्वनगरश्रियम् - (A) गान्धर्वाणां नगरम् इति गान्धर्वनगरम् । (ष.त.पु.) (B) गान्धर्वनगरस्य श्रीः इति गान्धर्वनगरश्रीः, तां __गान्धर्वनगरश्रियम् । (ष.त.पु.) पुर्नबौद्धैरभिदधे, मषीधौताननैरिव । अहो ! अर्हद्दर्शनेऽभूदियं दैवी प्रभावना ॥३८५॥ अन्वयः- मषीधौताननैः इव बौद्धैः पुनः अभिदधे अहो ! इयं दैवी प्रभावना अर्हद्दर्शने अभूत् । समास :- (१) मषीधौताननैः (A) मष्या धौतम् इति मषीधौतम् । (तृ.त.पु.) (B) मषीधौतम् आननं येषां ते इति मषीधौताननाः, तैः मषीधौताननैः । (समा.ब.वी.) (२) अर्हद्दर्शने - अर्हतां दर्शनम् इति अर्हद्दर्शनम्, तस्मिन् अर्हद्दर्शने । (ष.त.पु.) (३) दैवी-देवैः कृता इति दैवी । (तद्धित) 'कृते' ६/३/ १९२ ।। अण् प्रत्ययः+ङी। चिन्तितमन्यथास्माभिरन्यथेदमुपस्थितम् । दृष्टिः प्रसारिताप्यस्था वायुनी नीतमञ्जनम् ॥३८६॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204