Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૮૯ वैमानिकैर्विमानस्थैविमानस्थः समावृतः । पुरीं नाम पुरीं प्रापं, वज्रस्तां बौद्धदूषिताम् ॥३८१॥ अन्वयः- विमानस्थैः वैमानिकैः समावृतः विमानस्थः वज्रः बौद्धदूषितां
तां पुरीं नाम पुरीं प्राप। समासः- (१) विमानस्थैः - विमाने तिष्ठन्ति इति विमानस्थाः, तैः
विमानस्थैः । (उप.त.पु.) (२) विमानस्थ:-पूर्ववत् । (३) वैमानिकैः - विमाने जाताः इति वैमानिकाः, तैः
वैमानिकैः । (तद्धित) (४) बौद्धदूषिताम् – (A) बौद्धाः - पूर्ववत् । (B) बौद्धैः दूषिता इति बौद्धदूषिता, तां
बौद्धदूषिताम् । (तृ.त.पु.) तत्पुरीवासिनो बौद्धा, विमानानि निरीक्ष्य छे ।
अभाषन्तैर्वमुत्पश्या, उत्पुप्लुषोद्यता इव ॥३८२॥ अन्वयः- खे विमानानि निरीक्ष्य उत्पुप्लुषोद्यताः इव उत्पश्याः
तत्पुरीवासिनः बौद्धाः एवम् अभाषन्त ।
"उत्पश्य उन्मुखः" । (४५७) इत्यभिधाने । समास:- (१) तत्पुरीवासिनः - (A) सा च सा पुरी च इति तत्पुरी।
(वि.पू.क.)
(B) तत्पुर्यां वसन्तीति तत्पुरीवासिमः । (उप.त.पु.) (२) उत्पश्याः- ऊर्ध्वं पश्यन्तीति उत्पश्याः । (उप.त.पु.)
'घ्राध्मा. ५/१/५८ श प्रत्ययः।

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204