Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 201
________________ ૧૯૨ अन्वयः- अस्माभिः अन्यथा चिन्तितम् इदम् अन्यथा उपस्थितं दृष्टिः प्रसारिता अस्थाद् अपि अञ्जनं वायुना नीतम् । ततः पर्युषणोपर्वण्यहदायतनेऽमरैः।। महीयोन्महिमाऽकारि, भूस्पृशां यों ने गोचरः ॥३८७॥ अन्वयः- ततः अमरैः पर्युषणापर्वणि अर्हदायतने महीयान् महिमा अकारि यः भूस्पृशां न गोचरः (अस्ति)। समासः- (१) अमरैः - नास्ति मरः येषां ते इति अमराः, तैः अमरैः । (नञ्.ब.वी.) (२) पर्युषणापर्वणि - पर्युषणापर्व - पूर्ववत्, तस्मिन् पर्युषणापर्वणि । (म.प.लो.क.) (३) अर्हदायतने - अर्हताम् आयतनम् इति अर्हदायतनम्, तस्मिन् अर्हदायतने । (ष.त.पु.) (४) महीयान् - अयमनयोरतिशयेन महान् इति महीयान् । (तद्धित) ७/३/९ ईयसु प्रत्ययः । (५) भूस्पृशाम् - भुवं स्पृशन्तीति भूस्पृशः, तेषां भूस्पृशाम् । (उप.त.प.) जृम्भकामरकृतां प्रभावनामहतो भर्गवतो निरीक्ष्य ताम् । बौद्धभावमपहाय पार्थिव; सप्रजोऽपिंपरमार्हतोऽभवत् ॥३८८॥ अन्वयः- अर्हतः भगवतः जृम्भकामरकृतां तां प्रभावनां निरीक्ष्य सप्रजः पार्थिवः अपि बौद्धभावम् अपहाय परमार्हतः अभवत् ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204