Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 195
________________ ૧૮૬ (C) इन्द्रोपवने जातानि इति इन्द्रोपवनजानि, तानि इन्द्रोपवनजानि । (उप.त.पु.) वन्दितश्च श्रिया वज्रः, पुनरुत्पत्य सत्वरम् । पथाँ यथाँगतेनैवं, हुताशनवनं ययौ ॥३७५॥ अन्वयः- श्रिया च वन्दितः वज्रः पुनः उत्पत्य यथागतेन पथा एव सत्वरं हुताशनवनं ययौ। समासः- (१) सत्वरम् - त्वरया सह वर्तते यद् तद् इति सत्वरम् । (सह.ब.वी.) (२) यथागतेन - आगतस्य अनुरूपम् इति यथागतम्, तेन यथागतेन । (अव्य.भा.) (३) हुताशनवनम् - (A) हुताशनं नाम यस्य तद् इति हुताशननाम । (समा.ब.वी.) (B) हुताशननाम वनम् इति हुताशनवनम्, तद् __ हुताशनवनम् । (म.प.लो.क.) विद्याशक्त्या च भगर्वान्, विमानं व्यकैरोदर्थ । पालकस्यानुजन्मेवे, बन्धुरं विविद्धिभिः॥३७६॥ अन्वयः- अथ भगवान् च विद्याशक्त्या विविधर्द्धिभिः बन्धुरं पालकस्य अनुजन्मा इव विमानं व्यकरोद् । समास :- (१) विद्याशक्त्या -पूर्ववत् । (२) अनुजन्म - अनुगतं जन्म यस्य तद् इति अनुजन्म। (प्रादि.ब.वी.)

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204