Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 193
________________ ૧૮૪ (३) श्रीदेव्या - श्रीदेवी-पूर्ववत्, तया श्रीदेव्या । (४) देवतागारम् – पूर्ववत् । (५) वर्षिः - पूर्ववत् । श्रीदेवा ववन्दै तम्, दृष्टमात्र मुनीश्वरम् । रक्तोष्णीषप्रभाम्भोभिः, स्नपर्यन्तीव तत्क्रमौ ॥३७१॥ अन्वयः- रक्तोष्णीषप्रभाम्भोभिः तत्क्रमौ स्नपयन्ती इव श्रीः देवता दृष्टमात्रं तं मुनीश्वरं ववन्दे। समास:- (१) दृष्टमात्रम् – दृष्टः एव इति दृष्टमात्रः, तं दृष्टमात्रम् । (मयू.व्यं कर्म.) (२) मुनीश्वरम् - मुनीनाम् ईश्वरः इति मुनीश्वरः, तं मुनीश्वरम् । (ष.त.पु.) (३) रक्तोष्णीषप्रभाम्भोभिः - (A) उष्णीषस्य प्रभाः इति उष्णीषप्रभाः । (ष.त.पु.) (B) रक्ताश्च ताः उष्णीषप्रभाश्च इति रक्तोष्णीषप्रभाः । (वि.पू.क.) (C) रक्तोष्णीषप्रभा एव अम्भांसि इति रक्तोष्णीष प्रभाम्भांसि, तैः रक्तोष्णीषप्रभाम्भोभिः । (अव.पू.क.) (४) तत्क्रमौ - तस्य क्रमौ इति तत्क्रमौ, तौ तत्क्रमौ । ____ (ष.त.पु.) धर्मलाभांशिषं दत्त्वा, तस्थिवांसं तु तं मुनिम् । बद्धाञ्जलिः श्रीरवदंदाज्ञापय करोमि किम् ॥३७२॥

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204