Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 176
________________ ૧૬૭ (२) द्रव्यवन्तः - द्रव्यम् अस्ति येषां ते इति द्रव्यवन्तः । (तद्धित) (३) राजाज्ञाम् - राज्ञः आज्ञा इति राजाज्ञा, तां राजाज्ञाम् । (ष.त.पु.) तुलसीबर्बरीपूजापात्रतां ग्रामयक्षवत् । प्रयान्ति जिनबिम्बानि, हहाँ किं जीवितेन॑ नः ॥३४६॥ अन्वय :- ग्रामयक्षवत् जिनबिम्बानि तुलसीबर्बरीपूजापात्रतां प्रयान्ति हहा नः जीवितेन किम्। बर्बरी - बावल इति भाषायाम्। समास :- (१) तुलसीबर्बरीपूजापात्रताम् - (A) तुलसी च बर्बरी च इति तुलसीबर्बौं (इ.द्व.) (B) तुलसीबर्बरीभ्यां (कृता) पूजा इति तुलसी बर्बरीपूजा । (तृ.त.पु.) (C) तुलसीबर्बरीपूजायाः पात्रम् इति तुलसीबर्बरी पूजापात्रम् । (ष.त.पु.) (D) तुलसीबर्बरीपूजापात्रस्य भावः इति तुलसी बर्बरीपूजापात्रता, तां तुलसीबर्बरीपूजापात्रताम् । (तद्धित) (२) ग्रामयक्षवत् - (A) ग्रामं रक्षतीति ग्रामरक्षकः । (उप.त.पु.) (B) ग्रामरक्षक: यक्षः इति ग्रामयक्षः । (म.प.लो.क.) (C) ग्रामयक्षः इव इति ग्रामयक्षवत् । (तद्धित)

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204