Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
TEL
(३) जिनबिम्बानि-जिनानां बिम्बानि इति जिनबिम्बानि ।
(ष.त.पु.) मार्हत्स्वारोपयन्त्वेते, छद्मनेत्यभिशङ्कितः । बौद्धैः पुष्पं निषिद्धं नः, केशवासकृतेऽपि हिँ॥३४७॥ अन्वय :- एते छद्मना अर्हत्सु मा आरोपयन्तु इति अभिशङ्कितैः बौद्धैः
नः केशवासकृते अपि हि पुष्पं निषिद्धम् । समास :- (१) केशवासकृते- (A) केशानां वासः इति केशवासः ।
___ (ष.त.पु)
(B) केशवासस्य कृते इति केशवासकृते । (ष.त.पु.) किञ्चानिशं गणयताम् स्वामिन्नस्मार्कमङ्गुली । आगात्पर्युषणापर्वदिनं दिनमतल्लिका ॥३४८॥ अन्वय :- स्वामिन् ! किञ्च अनिशम् अङ्गुली: गणयताम् अस्माकं
दिनमतल्लिका पर्युषणापर्वदिनम् आगात् । समास :- (१) पर्युषणापर्वदिनम् - (A) पर्युषणापर्व-पूर्ववत् ।
(B) पर्युषणापर्वणः दिनम् इति पर्युषणापर्वदिनम् ।
(ष.त.पु.) (२) दिनमतल्लिका - मतल्लिका च तद् दिनं च इति
दिनमतल्लिका । (मयू.कर्म.) पर्वण्यप्यागतेऽमुष्मिन्वयं यतिवदर्हताम् । भावपूजां करिष्यामः, पुष्पसम्पत्तिवर्जिताः ॥३४९॥ अन्वय :- अमुष्मिन् पर्वणि आगते अपि पुष्पसम्पत्तिवर्जिताः वयं
यतिवद् अर्हतां भावपूजां करिष्यामः ।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204