Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 179
________________ अन्वय श्वस त्वा ૧૭૦ समाश्वसत हैं श्राद्धाः!, यतिष्ये वः सुतेजसें । इत्युक्त्वा भगवान् व्योमन्युत्पपात सुपर्णवत् ॥३५२॥ अन्वय :- हे श्राद्धाः ! समाश्वसत वः सुतेजसे यतिष्ये इति उक्त्वा भगवान् व्योमनि सुपर्णवत् उत्पपात । समास :- (१) सुतेजसे- शोभनं तेजः इति सुतेजः, तस्मै सुतेजसे। ___(सु.पू.क.) (२) सुपर्णवत् - सुपर्णः इव इति सुपर्णवत् । (तद्धित) स्वामी निमेषमात्रेणार्थागान्माहेश्वरी पुरीम् । अवातारीदुंपवनें, चैकस्मिन्विस्मयावहैं ॥३५३॥ अन्वय :- अथ स्वामी निमेषमात्रेण माहेश्वरी पुरीम् आगात् विस्मयावहे च एकस्मिन् उपवने अवातारीद् । समास :- (१) निमेषमात्रेण - निमेषः एव इति निमेषमात्रम्, तेन निमेषमात्रेण । (मयू.कर्म.) (२) उपवने - उपवनम् - पूर्ववत्, तस्मिन् उपवने। (३) विस्मयावहे - विस्मयम् आवहति इति विस्मयावहम्, तस्मिन् विस्मयावहे । (उप.त.पु.) हुताशनाभिधानस्य, देवस्योपवनं च तत् । योऽभूमिकस्तत्रं, मित्रं धनगिरें: सें तुं ॥३५४॥ अन्वय :- तत् हुताशनाभिधानस्य देवस्य उपवनम् (आसीत्) तत्र च तु यः आरामिकः सः धनगिरेः मित्रम् अभूत् ।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204