Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૭૫ गीतानुचरैणकदम्बकम्, अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम्, भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम्, नमेरुभूर्जतगरकिम्पाकाकुलमेखलम्, तं हिमाद्रिम् अद्राक्षीत् । नमेरु:- सुरपुन्नागतरुः । भूर्जः-भोजपत्रवृक्षः । तगरः- तन्नामपादपः, 'मींढक' इतिभाषायाम् ।
किम्पाकः- विषमयवृक्षः। समास :- (१) गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् – (A) गङ्गा
च सिन्धुश्च एतयोः समाहारः गङ्गासिन्धु । (समा.द्व.) (B) गङ्गासिन्धुनः जलम् इति गङ्गासिन्धुजलम् ।
(ष.त.पु.) (C) गङ्गासिन्धुजले क्रियमाणा इति गङ्गासिन्धु
जलक्रियमाणा । (स.त.पु.) (D) गङ्गासिन्धुजलक्रियमाणा क्रीडा इति गङ्गा
सिन्धुजलक्रीडा । (म.प.लो.क.) (E) गङ्गासिन्धुजलक्रीडायां प्रसक्ताः इति गङ्गा
सिन्धुजलक्रीडाप्रसक्ताः । (स.त.पु.) (F) सुराणां वारणाः इति सुरवारणाः । (ष.त.पु.) (G) गङ्गासिन्धुजलक्रीडाप्रसक्ताः सुरवारणाः
यस्मिन् सः इति गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणः, तं गङ्गासिन्धुजलक्रीडाप्रसक्त
सुरवारणम् । (समा.ब.वी.) (२) दशमामृतकुण्डाभपद्महदमनोरमम् -
(A) अमृतस्य कुण्डम् इति अमृतकुण्डम् । (ष.त.पु) (B) दशानां पूरणम् इति दशमम् । (तद्धित)

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204