Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 190
________________ ૧૮૧ वाससुभगोदकं श्रीदेवीदेवतागारप्रगायदमरीजनं पद्महदं जगाम। समास :- (१) तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् - (A) तरङ्गानां रङ्गशाला इति तरङ्गरङ्गशाला । (ष.त.पु.) (B) तरङ्गरङ्गशालायां तिष्ठन्ति इति तरङ्गरङ्ग शालास्थानि । (उप.त.पु.) (C) लास्यानि च तानि लासकानि च इति लास्यलासकानि । (वि.उभ.क.) (D) पङ्कजानि - पूर्ववत् । (E) तरङ्गरङ्गशालास्थानि लास्यलासकानि पङ्कजानि यस्मिन् सः इति तरङ्गरङ्गशालास्थलास्यलासकपङ्कजः, तं तरङ्गरङ्गशालास्थलास्यलासक पङ्कजम्। (समा.बहु.प.ब.वी.) (२) पद्मसौगन्ध्यवहनाद् - (A) शोभनः गन्धः इति सुगन्धः । (सू.पू.क.) (B) सुगन्धः एव इति सौगन्ध्यम् । (तद्धित) (C) पद्मानां सौगन्ध्यम् इति पद्मसौगन्ध्यम् ।(ष.त.पु.) (D) पद्मसौगन्ध्यस्य वहनम् इति पद्मसौगन्ध्यवहनम्, तस्मात् पद्मसौगन्ध्यवहनाद् । (ष.त.पु.) (३) मन्थरमारुतम् – (A) मरुद् एव इति मारुतः । (तद्धित) ७/२/१६५ अण् प्रत्ययः । (B) मन्थरश्चासौ मारुतश्च इति मन्थरमारुतः, तं मन्थरमारुतम् । (वि.पू.क.)

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204