Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૭૯ भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरः, तं भ्राम्य
दुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् । (तृ.त.पु.) (७) नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् - (A) नमेरवश्च भूर्जाश्च तगराश्च किम्पाकाश्च एतेषां
समाहारः इति नमेरुभूर्जतगरकिम्पाकम् ।
(समा.द्व.) (B) नमेरुभूर्जतगरकिम्पाकेन आकुला इति
नमेरुभूर्जतगरकिम्पाकाकुला । (तृ.त.पु.) (C) नमेरुभूर्जतगरकिम्पाकाकुला मेखला यस्मिन्
सः इति नमेरुभूर्जतगरकिम्पाकाकुलमेखलः, तं नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् ।
(समा.ब.वी.) (८) हिमाद्रिम्-(A) हिमैः आच्छादितः इति
हिमाच्छादितः । (तृ.त.पु.) (B) हिमाच्छादितः अद्रिः इति हिमाद्रिः, तं
हिमाद्रिम् । (म.प.लो.क.) ___ (९) व्योमस्थ:-व्योम्नि तिष्ठति इति व्योमस्थः । (उप.त.पु.) से शाश्वतार्हत्प्रतिमाः, सिद्धायतनवर्तिनीः । ववन्दै वन्द्यमानांहिविद्याधरकुमारकैः ॥३६६॥ अन्वय :- विद्याधरकुमारकैः वन्द्यमानांहिः सः सिद्धायतनवर्तिनीः
शाश्वतार्हत्प्रतिमाः ववन्दे । समास :- (१) शाश्वतार्हत्प्रतिमाः - (A) अर्हतां प्रतिभाः इति
अर्हत्प्रतिमाः । (ष.त.पु.)... -

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204