Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૬૯ समास :- (१) यतिवद् - यतयः इव यतिवद् । (तद्धित)
(२) भावपूजाम् - (A) भावः प्रधानं यस्यां सा इति
भावप्रधाना । (समा.ब.वी.) (B) भावप्रधाना पूजा इति भावपूजा, तां
भावपूजाम् । (म.प.लो.क.) (३) पुष्पसम्पत्तिवर्जिताः - (A) पुष्पाणि एव सम्पत्तिः
इति पुष्पसम्पत्तिः । (अव.पू.क.) (B) पुष्पसम्पत्त्याः वर्जिताः इति पुष्पसम्पत्ति
वर्जिताः । (पं.त.पु.) पराभूयं पराभूर्य, बौद्धैर्दुर्बुद्धिभिर्वयम् । जीवन्मृतौ इर्व कृतीः, स्वामिनि त्वर्यि सत्यपि ॥३५०॥ अन्वय :- त्वयि स्वामिनि सति अपि दुर्बुद्धिभिः बौद्धैः पराभूय पराभूय
वयं जीवन्मृताः इव कृताः । समास :- (१) दुर्बुद्धिभिः. - दुष्टा बुद्धिः येषां ते इति दुर्बुद्धयः, तैः
दुर्बुद्धिभिः । (प्रादि.ब.वी.) (२) जीवन्मृताः - जीवन्तः मृताः इव इति जीवन्मृताः ।
(वि.उभ.क.) जिनप्रवचनस्याभिभूतस्यास्य प्रभावनाम । विधार्य भगवन्नस्मान्, सञ्जीवयितुमर्हसि ॥३५१॥ अन्वय :- भगवन् ! अभिभूतस्य अस्य जिनप्रवचनस्य प्रभावनां
___विधाय अस्मान् सञ्जीवयितुम् अर्हसि। समास :- (१) जिनप्रवचनस्य - जिनस्य प्रवचनम् इति
जिनप्रवचनम्, तस्य जिनप्रवचनस्य । (ष.त.पु.)
७

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204