Book Title: Vairagyaras Manjari Author(s): Labdhisuri Publisher: Labdhisuri Jain Granthmala View full book textPage 5
________________ लब्धि सूरीश्वरजैनग्रन्थमालायाः सप्तमो मणि: [ ७ ] सूरिसार्वभौम जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचिता वैराग्यरसमञ्जरी । प्रथमगुच्छकः । वासुपूज्यं नमस्कृत्य बुहारीनगरीस्थितम् । क्रियते स्वात्मबोधाय वैराग्यरसमञ्जरी कराल कालव्याघास्यगृहीताशेषजन्तुके । चञ्चलं जीवनं लोके तस्माद् याहि शिवालयम् सर्वकार्यं परित्यज्य ज्ञानत्रिकं सदा भज । मोक्षप्रयाणसाहाय्या सामग्री खलु दुर्लभा गम्भीरनीरधौ न्यस्त- मौक्तिकप्राप्तिवज्जनुः । समीलायुगवद्वास्ति मानुष्यं समवाप्य तत् ऊषरे शस्यनिष्पत्तिवदेव कल्पपादपम् । सुकुलत्वं मराविव लब्ध्वा तत्रापि दुर्लभम् भाविभद्रत्वतः भव्यो भवस्थित्याः प्रपाकतः । सुगुरुवाक्यतः स्वस्मात् कर्मग्रन्थिविभेदतः प्राप्नोति शासन जैनं रोरंगेहे निधानवत् । व्याधिग्रस्तन्नृणां वैद्य इवातिपुण्ययोगतः १ रंक । १ ॥ १ ॥ ॥ २ ॥ ॥ ३॥ ॥ ४॥ ॥५॥ ॥ ६ ॥ || 6 ||Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 56