Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 27
________________ धातुरक्तपलानां हि शोषकं दुष्करं तपः। तथापि कर्मनाशेऽन्यत् कारणं न सतां मतम् ॥१५१ ॥ निकाचितानि कर्माणि नीयन्ते भोगतः क्षयम् । ख्यातोऽयमपि सिद्धान्तस्तपेनादरितो नहि ॥१५२॥ तपोऽग्निदग्धकर्मा भो! आत्मभावे स्थिताः सदा। निरहंकारिणो जीवा लभन्ते मोक्षसम्पदाम् ॥ १५३ ॥ यथाग्नौ पतितं स्वर्ण मलक्षयाद्विशुध्यति । तथा तपोऽग्निनात्माऽयं कर्मक्षयाद्विशुध्यति ॥१५४ ॥ अतितापप्रतप्तं हि यथार्यमञ्जरीफलम् । बन्धनान्मुच्यते तपसा तथात्मा कर्मबन्धनात् ॥१५॥ यथा लङ्घनतो याति ज्वरो दुःखप्रदायकः । तथा हि तपसा याति कार्मिको दुःखदो ज्वरः ॥१५६ ॥ ऊनोदर्यमनाहारो वृत्तिहासो रसात्ययः । कायक्लेशसुलीनत्वं विकल्पाः सन्ति बाह्यतः ॥१५७॥ वैयावृत्त्यं च स्वाध्यायो ध्यानं च विनयं तथा । कायोत्सर्ग विजानीयाः प्रायश्चित्तं शुभं तपः ॥ १५८ ॥ आन्तरिका इमे भेदाः तपसां षट् सतां मताः । पूर्वोक्तैर्मिलने जाता द्वादश सौख्यकारकाः ॥१५९ ।। तयाराध्याः सदा चेतो! मुक्तिसौख्यं समीहसे । यतस्तपोन्तरा नैव मुक्तिगामी भविष्यसि ॥१६०॥ तपोभावनिमग्नात्मा कुभावे नैव रज्यते । यथाक्षीररसास्वादी न क्षाराम्बु समीहसे ॥११॥ कथिते त्रिविधे धर्मे भावनात्मा प्रचक्ष्यते । तां विना स त्रिधा धर्मो निर्जीव इव लक्ष्यते ॥१६२॥ भावना शास्त्रकारैश्च ख्याता द्वादशभेदतः । सर्वशुभङ्करा लोके ध्यातास्ताः शिवदा मताः ॥१६३ ॥ यद्यद् नेत्रगतं लोके तत्तत् सर्वं विनाशि हि । व्यामोहो निष्फलस्तेषु दुःखानलविधायकः ॥१६४ ॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56