Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 53
________________ अन्यग्रन्थार्णवात्सारं पय आदाय वर्षति । वैराग्यसस्यनिष्पत्यै ग्रन्थोऽयं मे घनोपमः ॥१६४॥ पूर्वर्षिप्रोक्त एवास्ति भावोऽत्र चित्तहारकः । शतशः त्रुटिसंयुक्ता केवलाऽस्ति कृतिर्मम ॥१६५॥ पूज्यपादस्तथा प्रातःस्मरणीयैश्च प्रेरितः। श्रीमत्कमलसूरीशै गुरुभिः कृतवानहम् ॥१६६ ॥ रचनां विजयाल्लब्धिः परः सूरिर्गुणावहाम् । पक्षमात्रेण कालेन भवेयुः स्खलनास्ततः ॥१६७॥ सज्जनैर्हसवद्भूत्वा सारमादाय केवलम् । पयःपानं हि कर्त्तव्यं त्रुटिनीरमपास्य च ॥१६८ ॥ विशेषकम् gurang प्रशस्तिः । समस्तजन्तुप्रतिपालदक्षः सिद्धार्थसूनुः कलधौतकान्तिः । . अनन्तविज्ञानमयः कृपालुः श्रीवीरनाथो जयतु प्रभुस्सः निःसीमसम्पत् प्रविहाय यस्य सुधाधिकं सद्वचनं निशम्य । जम्बूर्मुनित्वंयभजत्क्षणेनं स श्रीसुधर्मा जयताद्गणेशः नवीनचौरः प्रभवस्त्रिलोक्यां चोर्यापदेशादभजच्छिवं यः। . शय्यम्भवं बोधयतिस्म विप्रं सुयाज्ञिकं ज्ञाननिधिस्स जीयात्

Loading...

Page Navigation
1 ... 51 52 53 54 55 56