Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरसमञ्जरी॥
पञ्चमगुच्छके | सम्यक्त्व
॥२४॥
लिङ्ग वर्णनम्॥
जैनधर्मतरोर्मूलं द्वारं शिवपुरस्य च । धर्मप्रासादपीठं चाऽऽधारोऽस्ति विनयादिषु
॥१५०॥ सार्वधर्मसुधाया हि भाजनं निधिरुच्यते । ज्ञानादिभावरत्नानां चिन्तयेद्विक्रमो यथा ॥१५॥ सार्वानुभवसिद्धात्माऽनुमीयत कथञ्चन । ज्ञायेत सुखदुःखादि-लिङ्गैः सत्तात्मको हि सः ॥१५२॥ प्रथमं गीयते स्थानं द्वितीयं द्रव्यनित्यता । पर्यायपक्षतोऽनित्यो ज्ञातं श्रीगौतमप्रभुः ॥ युग्मम् ॥१५३॥ करोति सर्वकर्माणि हेतुभिः कुम्भकृद् यथा । व्यवहारेण कर्त्तात्मा कर्तृकं तत्तृतीयकम् ॥१५४॥ भुड़े कृतानि कर्माणि स्वयं तद् भोक्तृकं मतम् । चतुर्थं दर्शने स्थान-मग्निभूतिनिदर्शनम् ॥ १५५ ।। सर्वकर्मक्षये भूया-निर्वाणाख्यं च पश्चमम् । त्रिलोकीशर्म यस्याग्रे तिलतुषमितं नहि ॥१५६॥ ज्ञानादिकत्रिक शास्त्रे मोक्षोपायः प्रकीर्त्यते । तत्तु सम्यक्त्वरत्नस्य षष्ठं स्थानं विभावयेत् ॥१५७ ॥ प्रभासगणभृज्ज्ञातमस्मिन्नर्थेऽस्ति ख्यातिमत् । सप्तषष्टिप्रभेदैः स्या-देवं सम्यक्त्वरक्षणम् ॥१५८ ॥ केचिन्महाव्रतान्येवाऽणुव्रतानि च केचन । जग्रिहिरे च सम्यक्त्वं केचित्तदुपदेशतः ॥१५९॥ उपकारमिति कृत्वा प्राणिनामुपदेशतः । शैलेशीकरणध्वस्ता-शेषकर्मा विभुस्ततः ॥१६० ॥ देहं विहाय सर्वाधि-व्याध्युपाधिविकाशकम् । समश्रेणिंगतिं कृत्वाऽस्पृष्टः स शिवगोऽजनि॥युग्मम्।१६१। सम्पूर्ण जगतां सौख्यं गृह्यते सर्वकालिकम् । न यात्यनन्तभागेन मुक्तिसौख्यस्य तुल्यताम् ॥१६२ ।। तत्प्रमादं परित्यज्य सागग्री मानवादिकाम् । सच्छास्त्राभ्यासतो योगान्निरुध्य सफलीकुरु ॥१६३ ॥
ASSACRACHAR
॥२४॥

Page Navigation
1 ... 50 51 52 53 54 55 56