Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरसमञ्जरी ॥
॥ २३ ॥
॥ १२४॥
।। १२५ ।।
॥ १२६ ॥
॥१२८॥
॥१२९॥
शुश्रूषा जिनवाक्यानां धर्मे रागस्तदुक्तिगे । वैयावृत्त्यं मुनौ प्रोक्तं त्रिधा लिङ्गं महर्षिभिः धर्मरागे चिलातीजः शुश्रूषायां सुदर्शनः । वैयावृत्ये तथा नन्दि-षेणो योज्यो निदर्शने अर्हत्सिद्धे गुरौ चैत्ये विनयः श्रुतधर्मयोः । श्रीसंघदर्शनाचार्यो - पाध्यायेष्वपि सर्वदा एवं दशविधः कार्यों विनयो दृष्टिरक्षणे । आशातना परित्यागो भुवनोऽत्र निदर्शनम् ॥ युग्मम् ॥१२७॥ सम्यक्त्वस्य भवेच्छुद्धिः करणानां विशुद्धितः । एता विशुद्धयस्तिस्रो रक्षन्ति दर्शनं सदा सदा जिनमते प्रीतिर्विशुद्धिर्मनसो मता । अनुसृत्यागमं वाचा प्रयुक्ता वचसां च सा प्राणत्यागेऽपि यो नैव जिनादन्यं नमेत् कदा । कायशुद्धिर्मता तस्य झटिति भवपारदा जयसेना कालिकाचार्यों वज्रकर्णस्तृतीयकः । मनोवाक्काययोगेषु योजनीया निदर्शने शङ्का कांक्षा विचिकित्सा श्लाघा मिध्यात्विनां तथा । तेषां परिचयस्त्याज्यः सम्यक्त्वं दूषयन्ति यत् ॥ १३२ ॥ पेयापो जितशत्रुश्च दुर्गन्धा श्रेणिकप्रिया । सुमतिः - ऋषिदत्ता च ज्ञातानि सन्ति दूषणे सिद्धान्ती धर्ममाख्याता वादी नैमित्तिकस्तथा । तपख्यनेकविद्याभृत् सिद्धः कविः प्रभावकाः दशपूर्वी वज्रः सूरिर्मल्लवादी विचक्षणः । भद्रबाहुर्मुनिर्विष्णु हेमचन्द्रो मुनीश्वरः पादलिप्तस्तथा बप्प - भट्टिश्वते प्रभावकाः । अनुक्रमेण विज्ञेयाः सम्यग् मार्गस्य सर्वदा
॥१३०॥
॥१३१॥
॥१३३॥
॥ १३४ ॥
॥१३५॥ ॥१३६॥
१ भुवनतिलकेति । २ आद्ययोरुभयोरेक एव दृष्टान्तः ।
पञ्चमगुच्छ सम्यक्त्वलिङ्ग
वर्णनम् ॥
॥ २३॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56