Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 54
________________ वैराग्यरसमञ्जरी ॥ ॥४॥ ॥ २५॥ - युगप्रधानः प्रथितः पृथिव्यां समस्तपापप्रतिहारकारी। ज्ञानाविभावे सततं विहारी जीयाद्यशोभद्रमुनीश्वरस्स श्रीभद्रबाहुः परमोपकारी नियुक्तयो येन विनिर्मितास्ताः। श्रीस्थूलभद्रो मुनिवाचनाभिः प्रप्राठितस्स प्रमुदं तनोतु एवं क्रमेणैव युगाब्धिपट्टे महातपस्वी तपसः प्रभावात् । तपोगणोत्पत्तिकरः स जीयात् सूरिजंगचन्द्र इह प्रभुनः समस्तपंचालमहीप्रदेशे जिनेन्द्रधर्मस्य विकाशकारी। आनन्दसूरिः प्रवभूव तस्मिन् गच्छे नभस्सूर्य इव प्रतापी तत्पदृपूर्वाचलभानुरेष गुणानुरागी कमलाख्यसरिः। नानानरेशप्रतियोधदाता बोधेर्विधाता हृदये ममास्तु तदीयपट्टाम्बरपूर्णचन्द्रः कराष्टनन्देन्दुमिते सुवर्षे । श्रीलब्धिसूरिनगरीबुहार्या विनिर्ममे ग्रन्थमिमं मनोज्ञम् ॥८॥ ॥९॥ BI॥२५॥

Loading...

Page Navigation
1 ... 52 53 54 55 56