Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 49
________________ 3%A5 विकाशेन संगत भक्ति गतोऽपि नित्यजीव लोकान्ते % A संकोचेन विकाशेन संगतो देहव्यापकः । अन्यथा चान्यदेहेन समे योगे कथं पृथग् ? ॥११०॥ निजपक्षनिराकारा-देति मुक्तिं गतोऽपि द्राग् । एतन्न संगतं यस्मात् निनिमित्तो भवो न हि ॥१११॥ निर्हेतुको हि संसारो भवेन्न नियतावधिः। नित्यजीवस्वभावात्मा मोक्षस्तु कर्मणां क्षये ॥११२।। वस्तुस्वभावतो देह-त्रिभागोनः प्रमाणतः । सर्वोपरि हि लोकान्ते कर्ममुक्तः प्रतिष्ठति ॥११३॥ अनन्तज्ञेयज्ञानी स्याज्जीवः कर्मयुतो नहि । तत्कर्माणि विनाश्यात्र सर्वज्ञस्तत्र तिष्ठति ॥११४॥ म्लेच्छार्यवैष्णवादीनां कुतकै व मुह्यति । यतो हालाहलं तेषां स्पष्टं तत्त्वेषु विद्यते ॥११५॥ जिनेन्द्रमतभिन्नेषु युक्तिस्तत्त्वानुगा क्वचित् । लक्ष्यते सा तु जैनेन्द्र-सारमादाय निर्मिता ॥११६॥ आत्मकर्मप्रभूणां या भवमोक्षस्वरूपयोः । व्यवस्था शासने जैने सैव सत्येति मन्यते ॥११७॥ यत्सूक्ष्मादपि सूक्ष्मं च तत्त्वं जिनेश्वरोदितम् । तदपि सत्यमेवास्ति यद्वक्ता रागवान् नहि ॥१८॥ इत्यादि भावनायुक्त आस्तिकत्वं प्रसिध्यति। प्रसिध्यत् साधयेत् लिङ्गं सम्यक्त्वस्य हि पञ्चमम् ॥११९॥ भक्तः श्रुत्वा पुनः प्राह सम्यक्त्वान्न परोमणिः। तद्रक्षणे प्रभो! ख्याहि कृपया साधनानि च ॥१२०॥ प्रभुराहाथ भो भद्र ! सप्तषष्टिप्रकारतः। सम्यक्त्वरक्षणं भूयात् श्रुत्वा तानवधार्यताम् ॥१२१॥ श्रद्धानानि च चत्वारि तावत् परमार्थसंस्तवः । गीतार्थसेवन नष्ट-दर्शनानां विवर्जनम् ॥१२२॥ पाखण्डिकानां सर्वेषा-मनासङ्गश्च ज्ञाततः। अभयपुष्पचूलाद्य-निहवगणभृत् क्रमात् ॥१२३॥ %

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56