Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरस
चतुर्थ
मञ्जरी॥
गुच्छके तत्त्वत्रयी
॥१७॥
वर्णनम् ॥
CSCRECORRECASE
अकर्मभूमिजाश्चान्ये तथान्तीपवर्तिनः । बुद्धिबलविहीना ये बोधिस्तेषां तु दुर्लभः कुधर्माभिमुखाः केचित् सुधर्म न विदन्ति हा! । बोधिलाभं लभन्ते न विधर्मग्रहपीडिताः ॥३०२॥ कुदेवाराधका ये स्युः कुत्सितागमवासिताः । कुलिङ्गधारिणो लोके बोधिहीना भ्रमन्ति ते ॥३०३ ॥ संसारशूकराः केचिद् धृष्टाः पण्डितमानिनः। विषयकर्दमे मना दूरे तिष्ठन्ति बोधितः॥३०४॥ आलस्योपहताः पापा अन्ये मोहेन मोहिताः । कषायविवशीभूता दूरे तिष्ठन्ति बोधितः ॥३०५॥ तीव्रमानहता अन्या-वर्णवादे रताः सदा । हारयन्ति नृजन्मापि तेषां बोधिः कुतो भवेत् ? ॥३०६॥ नागा इव कराला ये द्वेषाग्निपरिपूरिताः । हनिष्यामः स्वमन्यं वा तेषां धर्मः कुतो भवेत् ? ॥३०७॥ विषयेषु विलग्नानां मदिराऽऽसक्तचेतसाम् । मांसाद्यभक्ष्यरक्तानां निद्राध्वस्तमतिमतां ॥३०८॥ भक्तकथाप्रसक्तानां चौरदेशकथाकृताम् । विग्रहे बद्धचित्तानां बोधिलाभोऽस्ति दुर्लभः॥ ३०९ ॥ युग्मम् 3 शोकशल्ययुताः केचित् केचित्कार्पण्यदोषतः । भयतोऽपि लभन्ते न बोधिलाभं सुदुर्लभम् ॥३१॥ अज्ञानोपहता येऽत्र श्वेतं कृष्णं विदन्ति न । द्विपदा वृषभास्तेऽब्धौ बोधिहीना ब्रुडन्ति हा! ॥ ३११॥ अन्येऽपि कौतुकाकीर्णा दिग्देशोद्यानकादिषु । प्रेक्षणगीतवाद्यानि शृण्वन्तः संचरन्ति ये ॥३१२॥ मन्त्रतन्त्रविधौ दक्षाः कुदर्शनकदाग्रहाः । कुहेतुभिर्विमूढा हा ! तेषां धर्मो न चेतसि ॥३१३ ।। यथा कल्पार्कयोस्तो-स्तरुत्वसदृशेऽपि हि । मिथोऽन्तरं महत्तद्वद्धर्मयोर्जनजैनयो।
॥१७॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56