Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरसमञ्जरी॥
चतुर्थ
गुच्छके
॥१८॥
तत्त्वत्रयी वर्णनम् ॥
SERICA
तत्प्रकाशो भवत्तस्य सिद्धान्तस्यावगाहनात्। आच्छादितोऽस्ति सोऽप्यत्र मिथ्यावासितचेतसाम् ॥३२॥ अतः प्रोक्तं मया चित्त ! दुर्लभः परमेश्वरः। धर्मस्य कथको लोके पाकाभावे भवस्थितेः ॥३२९ ॥ मिलितःस महापुण्यात् सेव्यतां सेव्यतां सदा । सेवाप्राचुर्यतो भूयात् सुलभास भवान्तरे॥३३०॥ युग्मम् तत्सेवा स्यात्तदुक्तानां तत्त्वानां श्रद्धया खलु । तज्ज्ञानेन तदाचारः कुर्यात्सा तादृशं नरम् ॥ ३३१ ॥ भावनेयं भवेच्चित्ते यस्य दुर्गतिदारिका । सद्गतौ गामुकीभूय स्वल्पकालेन सिध्यति ॥३३२॥ भावनाभिर्यदेताभि-श्चित्तनैर्मल्यधारिणाम् । पिण्डस्थादि भवेद् ध्यानं तदा मुक्तिरवाप्यते ॥ ३३३ ॥ पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । ध्यानचतुष्टयं लोक आत्मभावविबोधकम् ॥३३४ ॥ पिण्डस्थं तद्भवेद्ध्यानं कायस्थः परमेश्वरः। निष्कर्मश्चिन्त्यते चित्ते ज्ञानवान मुक्तिदो जिनः ॥ ३३५ ॥ अर्हन्मयानि हृत्पद्मे यानि मन्त्रपदानि च । चिन्त्यन्ते शशिशुभ्राणि तत्पदस्थं मतं बुधैः ॥३३६ ॥ समवसरणस्थो यो जिनः समातिहार्यकः । तद-बिम्बं चिन्त्यते चित्ते रूपस्थं तदुदीरितम् ॥ ३३७ ।। ज्योतिश्चिन्मयरूपो हि सिद्धोऽमूर्ती निरञ्जनः । स्मर्यंत ईश्वरो यन्त्र रूपातीतं प्रकीर्तितम् ॥३३८॥ एतचतुष्टयं ध्यायन ध्याता ध्येयपदं ब्रजेत् । कीटको भ्रमरीध्यानात् भ्रमरीत्वं यथाऽनुयात् ॥ ३३९॥
इति तस्वत्रयीवर्णनात्मकश्चतुर्थगुच्छकः समाप्तः
॥१८॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56