Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 41
________________ पश्चमगुच्छकः। पूर्वोक्तशिक्षया चेतः ! यदा त्वं संयुतो भवः । तदान्तरात्मभावेन योजितो हि भविष्यसि ॥१॥ अन्तरात्मा निलीयेत परात्मनि पुनर्यदा । तेनैक्यं प्राप्य चात्मैव परमात्मत्वमाप्नुयात् निर्मथ्य घातिकर्माणि केवलज्योतिराप्य च । हस्तामलकवद्विश्वं पश्यति स चराचरम् विलीनसकलक्लेशो घातिकर्मक्षये सति । सदेहः परमात्मापि विदेहसदृशो भवेत् ॥४॥ तीर्थकृत्कर्मवेदाय कर्मभेदाय देहिनाम् । देशनां स यकां दद्यात् तल्लेशोऽत्र विलिख्यते सर्वेषां धर्मभेदानां सम्यक्त्वं प्रथमं मतम् । सुदेवे सुगुरौ शुद्ध-धर्मे श्रद्धानतो भवेत् ॥६॥ चारित्रज्ञानहीनोऽपि सम्यक्त्वी इलाध्यते सदा । यतः सिध्यति सम्यक्त्वी ज्ञानचारित्रभृन्नहि ॥ ७ ॥ चिन्तामणिकामकुम्भ-कल्पवृक्षाधिकप्रदम् । सम्यक्त्वं तद्विना धर्म ऊपरे बीजवापवत् ॥८॥ अहिंसासत्यमस्तेय-ब्रह्मचर्यापरिग्रहाः। सम्यक्त्वसहिता एते नियमा मोक्षदायिनः ॥९॥ संयमस्य बलाऽभावे श्रावकाणां व्रतानि च । द्वादश गृहीतव्यानि सम्यक्त्वोच्चारपूर्वकम् ॥१०॥ स्थूलहिंसामृषास्तेयाऽब्रह्मतो विरतित्वतः। श्राद्धव्रतानि चत्वारि तेष्वाद्यानि भवन्ति हि ॥११॥ परिग्रहाणां संकोचे पश्चमं व्रतमुच्यते । दिशां नियमने षष्ठं भोगोपभोगवर्जनम् ॥१२॥ ॐॐॐॐACAAS

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56