Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरस
मञ्जरी॥
A
पंचमगुच्छके सम्यक्त्व
॥१९॥
लिङ्ग
वर्णनम् ॥
4%ANAS
देशतः सप्तमं ज्ञेयमनर्थदंडवर्जनम् । अष्टमं नवमं चापि. सामायिकव्रतं मतम्
॥१३॥ देशावकाशिकं नाम दशमं व्रतमुच्यते । पर्वादौ पौषधं कृत्वा पाल्यमेकादशव्रतम्
॥१४॥ अतिथिसंविभागेन क्रियते द्वादशवतम् । स्वर्गगा हि व्रतस्थाः स्युः पशवो व्रतवर्जिताः ॥१५॥ महाव्रतानि लब्धानि न द्वादशवतानि च । सम्यक्त्वं येन नो लब्धं तस्य जन्म निरर्थकम् ॥१६॥ जीवाजीवौ तथा पुण्यपापे चाश्रवसंवरौ । निर्जराबन्धमोक्षाश्च तत्त्वान्येवं मतानि हि ॥१७॥ स्याद्वादसहितं तेषां नयनिक्षेपपूर्वकम् । यज्ज्ञानं तत्तु सम्यक्त्वं धर्माधारं प्रकीर्त्यते ॥१८॥ तत्त्वज्ञानविहीनोऽपि तत्वश्रद्धानमात्रतः । सम्यक्त्वं लभते कश्चिन् माषतुषमुनीशवत् सम्यक्त्वं विद्यते जीवे नवेति ज्ञायते कथम् ? । इति पृष्ट प्रभुब्रूते जानीयात् पञ्चलिङ्गतः ॥२०॥ प्रभो! तानि च कानि स्यु-स्तेषां व्याख्यापुरस्सरम् । स्वरूपं श्राव्यतां येन तच्छ्रुत्वा तीर्यते जगत् ॥२१॥ प्रभुराह शृणु श्राद्ध ! पञ्चलिङ्गानि भावतः । शमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्यमेव च ॥२२॥ तत्सद्भाग्यभरैर्लब्धमेकैकमपि दर्शनम् । लीनं च गमयत्येव तेन लिङ्गं प्रकीर्त्यते
॥२३॥ मिथ्यात्वोपशमो ज्ञेयं लिङ्गमुपशमात्मकम् । चारित्रमोहनीयं यत् कषायाः कथिताः खलु ॥२४॥ चतुर्विंशतिसत्कर्मी मिथ्यात्वं नान्यथाऽप्नुयात् । सकषाये च सम्यक्त्वं सास्वादनं कथं भवेत् ? ॥२५॥ व्यवहारकर लिङ्ग-मादिमानां शमो नहि । यतस्तुर्ये गुणे सन्ति द्वादशान्ये कषायकाः ॥२६॥
॥१९॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56