SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वैराग्यरस चतुर्थ मञ्जरी॥ गुच्छके तत्त्वत्रयी ॥१७॥ वर्णनम् ॥ CSCRECORRECASE अकर्मभूमिजाश्चान्ये तथान्तीपवर्तिनः । बुद्धिबलविहीना ये बोधिस्तेषां तु दुर्लभः कुधर्माभिमुखाः केचित् सुधर्म न विदन्ति हा! । बोधिलाभं लभन्ते न विधर्मग्रहपीडिताः ॥३०२॥ कुदेवाराधका ये स्युः कुत्सितागमवासिताः । कुलिङ्गधारिणो लोके बोधिहीना भ्रमन्ति ते ॥३०३ ॥ संसारशूकराः केचिद् धृष्टाः पण्डितमानिनः। विषयकर्दमे मना दूरे तिष्ठन्ति बोधितः॥३०४॥ आलस्योपहताः पापा अन्ये मोहेन मोहिताः । कषायविवशीभूता दूरे तिष्ठन्ति बोधितः ॥३०५॥ तीव्रमानहता अन्या-वर्णवादे रताः सदा । हारयन्ति नृजन्मापि तेषां बोधिः कुतो भवेत् ? ॥३०६॥ नागा इव कराला ये द्वेषाग्निपरिपूरिताः । हनिष्यामः स्वमन्यं वा तेषां धर्मः कुतो भवेत् ? ॥३०७॥ विषयेषु विलग्नानां मदिराऽऽसक्तचेतसाम् । मांसाद्यभक्ष्यरक्तानां निद्राध्वस्तमतिमतां ॥३०८॥ भक्तकथाप्रसक्तानां चौरदेशकथाकृताम् । विग्रहे बद्धचित्तानां बोधिलाभोऽस्ति दुर्लभः॥ ३०९ ॥ युग्मम् 3 शोकशल्ययुताः केचित् केचित्कार्पण्यदोषतः । भयतोऽपि लभन्ते न बोधिलाभं सुदुर्लभम् ॥३१॥ अज्ञानोपहता येऽत्र श्वेतं कृष्णं विदन्ति न । द्विपदा वृषभास्तेऽब्धौ बोधिहीना ब्रुडन्ति हा! ॥ ३११॥ अन्येऽपि कौतुकाकीर्णा दिग्देशोद्यानकादिषु । प्रेक्षणगीतवाद्यानि शृण्वन्तः संचरन्ति ये ॥३१२॥ मन्त्रतन्त्रविधौ दक्षाः कुदर्शनकदाग्रहाः । कुहेतुभिर्विमूढा हा ! तेषां धर्मो न चेतसि ॥३१३ ।। यथा कल्पार्कयोस्तो-स्तरुत्वसदृशेऽपि हि । मिथोऽन्तरं महत्तद्वद्धर्मयोर्जनजैनयो। ॥१७॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy