SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चिन्तामणौ घरट्टे च प्रस्तरत्वे समेऽपि भोः !। यथान्तरं महत्तद्वद्विद्धि काञ्चनलोष्ठयोः ॥३१५ ॥ एवं वै धर्मशब्देऽपि समाने महदन्तरम् । सुपरीक्ष्य ततो ग्राह्यो धर्मो विद्याविचक्षणैः ॥३१६॥ यो रीरीं काञ्चनं मत्वा गृहीत्वा विक्रीणाति च । ज्ञात्वा परमार्थतः कूटं रोरूयते मुहुर्मुहुः ॥३१७ ॥ कनकं यो कलित्वात्र कषछेदप्रतापतः । गृह्णाति वञ्च्यते नैव ह्येवं धर्मविशारदः ॥३१८॥ दृश्यन्ते दानिनः शूरा विद्वांसो रूपभाजिनः । परमार्थग्रहे नित्य-मुद्यता विरला नराः ॥३१९॥ द्वासप्ततिकला विज्ञाः स्वर्णरत्नपरीक्षकाः । सामर्थ्यविहीनास्तेऽपि सन्ति धर्मपरीक्षणे ॥३२०॥ धन्यास्ते कृतपुण्यास्ते लब्धं यैर्भवसागरे । बोधिरत्नं महानयं शिवसंपत्प्रदायकम् पदार्था लौकिका प्राप्ता भ्रमतानेकशो भवे । न प्राप्तो वीतरागोक्त-धर्मो जीवेन भावतः ॥३२२॥ अप्राप्स्यद्यदि धर्म स तदाप्स्यन्न कथं शिवम् ? । एवं विचारतो जीवे प्रागभावः प्रसिध्यति ॥ ३२३ ॥ अधुना दुर्लभं प्राप्तं तद्रत्नं पुण्ययोगतः। मा हार्मूढभावेन शास्त्रविरुद्धवर्तनैः ॥३२४॥ बोधिसंरक्षणे ध्यानाकर्षणं पापमर्षणम् । भावनेयं करोति द्राग् ततोऽस्यां त्वं रतो भव ॥३२५ ॥ अष्टभिर्दशभिर्मुक्तो दूषणैः स जिनो मतः। यथार्थतत्त्वमाख्याता दुर्लभः परमेश्वरः ॥३२६॥ यतो मिथ्यान्धकारैः स मिथ्यादृष्टिसुविस्तृतैः । अन्तरितः सदास्तेऽत्र हृत्प्रकाशेन लक्ष्यते ॥३२७ ॥ १ पित्तलम् ।
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy