Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
॥ २८७ ॥
॥ २८८ ॥
॥ २८९ ॥
॥
॥ २९३ ॥
वैपरीत्येन यत्कुर्या - दकामा सा निगद्यते । आधा मुक्तिप्रदाऽन्या तु लौकिकं शर्म यच्छति भावनेयं हि भव्यानां योजयेत्तपसि ध्रुवम् । चेतांसि पुण्यपूतानां कर्मकन्दप्रभेदिका जम्बूद्वीपोऽत्र सर्वेषां द्वीपानां मध्यगो मतः । तिर्यग्लोके तमावेष्ट्य लवणान्धिर्बहिः स्थितः धातकी तं तथावेष्टय द्वीपस्तिष्ठति तं तथा । वेष्ट्वाकालोदधिरास्ते द्वीपोऽस्ति पुष्करस्ततः ।। २९० ।। असंख्या सन्ति ते लोके ह्येवं द्वीपान्धयो मताः । ऊर्ध्वलोकेऽप्यसंख्या ते विमानानि च स्वर्गिणाम् ॥ २९९ ॥ अधोलोकेऽप्यसंख्या स्ते भुवननरकालयाः । ज्योतिर्धामानि तिर्यक्षु तेषां संख्या न विद्यते २९२ ॥ एवं भवे विशालेऽत्र जीवो जातो मृतो नहि । यत्र सोऽत्र प्रदेशो न मनुष्याकृतिधारके तस्माद्धर्म गृहीत्वा त्व-मनाग्रनन्तकं जगत् । अनादिसान्तकं कुर्याः स्वस्मिन्मुक्तिमवाप्य भोः ! एवं ज्ञापयतीयं त्वां चेतो ! लाभप्रदायिका । भावना भवसन्तत्या वहया नाशे कुठारिका सर्वरत्नान्महद्रत्नं बोधिरत्नं प्रकीर्तितम् । जिनेशै रक्षणीयं तत् प्राणैः कण्ठगतैरपि एकेन्द्रियादिजीवेषु बोधिविहीनयोनिषु । दुर्लभं बोधिबीजं स्यात्तस्माद्बोधि सदा भज नारकाणां कथं बोधि-रुपदेष्टुरभावतः । तिरखां दुःखदग्धानां बोधिलाभोऽस्ति दुर्लभः अनार्यबर्बरादिषु देशेष्वपि कुतो भवेत् ? । धर्मभावो मनुष्याणां दयाविमुक्तचेतसाम् आर्यदेशेष्वपि मूका अन्धा रोगार्त्तदेहिनः । बधिरा बोधिलाभं हा ! प्राप्नुवन्ति न केचन
॥ २९४ ॥
॥ २९५ ॥
।। २९६ ।। ।। २९७ ॥
॥ २९८ ॥
॥ २९९ ॥ ॥ ३०० ॥
+4+%+4%

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56