Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 33
________________ बाल्ययौवनवार्धक्येऽशुचिकामजरातुरे । मानवेऽपि भवे दुःखं समस्त्येवमनेकधा ॥ २३३॥ केचित् पुण्यं विधायात्र सामान्यं देवयोनिषु । किल्बिषिकादयो जाता दुःखिनः किङ्करा इव ॥ २३४ ॥ नितान्तसेवया चित्ते खिद्यन्ति ते मुहर्मुहः। तथा परश्रियं दृष्ट्वाऽधिकां न्यूनां च स्वां श्रियम् ॥ २३५॥ परदेवीं सुरूपां ते संहृत्य कामविह्वलाः । कृष्णराजीविमानेषु लीनाः स्युस्तस्करा इव ॥ २३६ ॥ ज्ञात्वेन्द्रस्तान स्थितास्तत्र त्सरुणा हन्ति मस्तके । क्रन्दन्ति पीडया यावत् षण्मासी ते मृता इव ।। २३७ ॥ भाविनी दुर्गतिं ज्ञात्वा स्वस्य केचिच्च दुःखिनः। आर्तध्यानेन जायन्ते तज्ज्ञा जानन्ति तेऽथवा ॥ २३८ ॥ ईर्षामानविकारेण क्रोधलोभभयादिभिः।व्याकुलानां च देवाना-मपि सौख्यं कुतो भवेत् ॥ २३९ ॥ एवं दुःखमयं ज्ञात्वा जगन्मोक्षं सुखावहम् । मोक्षमार्गे मनः कुर्या-स्तत्प्राप्त्यै चोद्यमी भव ॥ २४० ।। भावनेयं सुभव्येभ्य एवं बोधं ददाति च । भाव्याहं मानसे नित्यं मुच्यन्ते जन्तवो मया ॥ २४१ ॥ आयाति जीव एकाकी गच्छत्येकाकी जायते । दुःखानां भाजनं चैकः संबन्धो वस्तुतो नहि ॥ २४२॥ फलं भुङ्क्ते स एकाकी विचित्रं कृतकर्मणः। द्रव्यादिष्वेव दायादा दुःखे कोऽपि न वर्तते ॥ २४३ ॥ माता पिता न च भ्राता पुत्रो योषित्तथैव च । संबन्धी सहगो नास्ति धर्म एवानुगो मतः ॥ २४४ ॥ द्रव्यं तिष्ठति धाम्नि ते रामा विश्रामभूतले । स्मशाने स्वजनाः सर्वे त्वमेको परलोकगः ॥ २४५॥ भुङ्क्ते तदर्जितं द्रव्यं कुटुम्ब हर्षनिर्भरम् । दुःखं तु नरकादौ त्व-मेकाकी हा! सहिष्यसे ॥ २४६ ।। 5%CE%AC ईर्षामान विगति ज्ञात्वा नसरुणाहाबलाः । परश्रियं ही %5C

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56