Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
वैराग्यरस
मञ्जरी ॥ ॥ १४ ॥
॥ २२० ॥ ॥ २२९ ॥
॥ २२३ ॥
॥ २२६ ॥
चातुर्गतिकसंसारे दुःखानि विविधानि च । अनुभूतानि जीवेन दर्श्यन्ते लेशतो मया निगोदेषु वसञ्जीवोऽनन्तानन्तमनेहसम् । दुःसहं लभते दुःखमेकोच्छ्वासे कृता भवाः सप्त दश सदा येन दुःखसीमा कथं भवेत् । ततो निर्गत्य पृथ्व्यादिचतुष्के बम्भ्रमीति हा ! ॥ २२२ ॥ युग्मम् उत्सर्पिणीरसंख्याता तिष्ठति तत्र दुःखितः । जीवो वनस्पतौ प्राप्तः दुःखानि सहते सदा ततो निर्गत्य जन्तुः सः विकलाक्षेषु जायते । संख्यातान्यत्र वर्षाणि वसति दुःखपूरितः ततः पश्चाक्षजीवेषु जायन्ते जलगादिषु । हन्यन्ते दुष्टकैर्वत्तैर्बहिष्कृष्ट्वा कुकर्मभिः क्षुत्तृषा भारवाहाङ्गच्छेदनिर्लाञ्छनादिभिः । दुःखिताः पशवो लोके दृश्यन्ते हा ! पदे पदे पक्षिणामपि पापा हा रसनेन्द्रियलुब्धकाः । प्राणान् हरन्ति निःशूका मृत्वा ते स्युर्हि नारका ॥ २९७ ॥ नारके यानि दुःखानि तान्युक्तानि च पूर्वतः । ज्ञात्वा नैव कदा कार्या हिंसा तन्नरकप्रदा एवं दुःखानि तिर्यक्षु प्राप्य जीवः पुनस्ततः । जायते योषितां गर्भे दुःखतो नरकोपमे प्रतिरोमोष्णसूचिभिस्ताप्यमानस्य देहिनः । यत्कष्टं जायते तस्माद् गर्भे त्वष्टगुणा व्यथा अधोमुखा हि तिष्ठन्ति गर्भे वर्चोगृहे हहा ! । जठराग्निप्रदीप्तेऽत्र द्वादशाब्दानि केचन जायन्ते जन्मवेलायां व्यथातुरा मृता इव । म्रियन्ते मारयन्ते च मातरं केऽपि जन्तवः १- आदिपदेन स्थलचरखेचरौ प्राह्मौ । २- धीवरैः ।
।। २२८ ॥ ॥ २२९ ॥ ॥ २३० ॥ ॥ २३१ ॥
॥ २३२ ॥
॥ २२४ ॥
॥ २२५ ॥
स्ल
चतुर्थ
गुच्छके तत्त्वत्रयी वर्णनम् ॥
॥ १४ ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56