Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 22
________________ वैराग्यरसमञ्जरी॥ चतुर्थ ॥९॥ गुच्छके तत्त्वत्रयी वर्णनम् ॥ यदुपदेशदातृणा-मुपकारेऽस्ति नावधिः । तदा तद्धर्मभावस्यो-पकारे च कथं भवेत् ? ॥८३ ॥ धर्मादधिगतैश्वर्यो यो नित्यं तं च सेवते । स हि शुभगतिर्भावी कृतज्ञेषु शिरोमणिः ॥८४॥ धर्मादधिगतैश्वर्यो यस्तमेव निहन्ति च । नास्य शुभगतेाभोऽकृतज्ञानां शिरोमणेः ॥८५॥ वने रणे जलाग्नौ च शत्रूणां निचये स्थितम् । भयाक्रान्ते च कान्तारे धर्म एको हि रक्षति ॥८६॥ धर्म वर्द्धयतो वृद्धिःक्षयं क्षपयतो भवेत् । धर्मवृद्धिस्ततः कार्या स्वकीयां वृद्धिमिच्छता ॥८७॥ त्रिपुं मित्रेषु धर्मोऽयं सामान्यपङ्किगः कृतः । तथापि दुःखनिस्तारे सर्वेषामुपरि स्थितः ॥८८॥ यदि पर्यन्तकालेऽपि धर्म प्रीतिर्विधीयते । तर्हि त्वां स्वर्गगं कृत्वा कर्तव्यात्स्वं विमुञ्चति ॥८९॥ माता पिता सुता दार-भ्रातृजायादयोऽखिलाः । स्वार्थनिष्ठा मता एको धर्मः परमबान्धवः ॥९॥ रसायनाद्यथा लोके कश्चिद्रोगः प्रशाम्यति । धर्मरसायनाङ्गो भोः सर्वरोगः प्रणश्यति सर्व जगद्गतं वस्तु विद्यते नेत्रयोः पथि । तत्सर्व पुद्गलाजात-मेकस्मान्नात्र संशयः ॥९२ ॥ तथा यद् यत्सुखं चात्र परत्रापि च विद्यते । त्रिकालभावि तत्सर्व-मेकस्माद्धर्मतो भवेत् ॥९३ ॥ एवं सर्वेप्सिते सौख्ये यो धर्मः कार्यकृन्मतः । सर्वानिष्टहरे तस्मिन् केनालस्यं विधीयते? ॥९४ ॥ यस्त्रिवर्गेषु मुख्योऽस्ति परत्रेह हितप्रदः । कर्मराशिविनाशी यः स सेव्यः श्रीजिनोदितः ॥१५॥ १-नित्यमित्रसमो देहः स्वजनाः पर्वसन्निभाः नमस्कारसमो ज्ञेयो धर्मः परमबान्धवः इति श्लोकार्थोऽत्र भाव्यः ।। RECEB%ARRORSCARRIAGES ॥९ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56