Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 24
________________ वैराग्यरसमञ्जरी॥ चतुर्थगुच्छके ॥१०॥ तत्त्वत्रयी वर्णनम् ॥ दानं दुर्गतिहारि स्यादू दानं सद्गतिदायकम् । सर्व आदानमिच्छन्ति दानं तु विरला जनाः ॥ ११ ॥ दा दाने धातुराख्याति दा तत्र नैव दुर्गतिः । एवं तु दानसंयोगात् दानाद् दुर्गतिर्वार्यते ॥१११ ॥ कूर्पवृक्षमहिष्यादे-र्ददत एव वर्द्धनम् । अन्यथा क्षय एवास्ति तस्माद्दानं प्रशस्यते ॥११२॥ संसाराब्धौ भवेद्दानं सत्तरण्डं सुखावहम् । कर्मभूभृद्विनाशे हि दानं वज्रसमं मतम् ॥ ११३ ॥ सद्गतेः कारणं दानं येन सावद्यकारकः । रथकारो गतः स्वर्ग बलभद्रप्रदानतः वस्त्रपात्रान्नभैषज्य-वसत्यादि प्रदानतः। धर्मोपष्टम्भदानं स्या-दाधिव्याधिविनाशकम् ॥११५॥ सक्तुदानजपुण्येन रङ्कस्य कस्यचिद्यथा । कर्करा बालक्रीडायै ग्रहीता मणयोऽभवन् भूयांसो भवतस्तीर्णा दानपुण्यप्रभावतः। शालीभद्रभवं पश्य दानमाहात्म्यसूचकम् परोपकार एवास्ति स्वोपकारो मतो बुधैः । परोपकारहीनस्य नीचस्य जीवनेन किम् ? ॥१८॥ पशवोऽपि वराश्चर्म-दुग्धायैरुपकारिणः । परोपकारशून्यस्य नरस्य जीवितं हि धिक् ! ॥११९ ॥ ज्ञानदानं वरं प्रोक्त-मन्तज्योति प्रकाशकम् । तत्त्वातत्त्वी ततो ज्ञात्वा जीवः स्यात्सुखभाजनम् ॥ १२० ॥ तज्ज्ञानस्य प्रचारः स्यात् पुस्तकानां प्रचारतः । ततो द्रव्यव्ययेनापि कर्तव्यः स मनीषिणा ॥१२१ ॥ दातव्यमभयं दानं निर्भयपददायकम् । सर्वलाभान् परित्यज्य जीवो जीवनमिच्छति ॥१२२ ॥ १-जलफलपयांसि ददत इति भाव्यम् ॥ ॥१०॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56