Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 11
________________ रूपेण मुरशैलेश-सदृशोऽपि कुकर्मकः । धिर धिम् ते बाह्यसौन्दर्य-मन्तरे मलिनात्मक! ॥२६॥ ददत उपदेशं ते शौर्य वचसि यद्भवेत् । तच्छौर्य कायमनसो-भवेच्चेद्धस्तगं शिवम् ॥२७॥ मुधा मूर्हि संसारो मथ्यते सारमिप्सुभिः। म्रक्षणं लेभिरे केऽत्र पानीयस्य विलोडनात् कत्र पानायस्य विलाडनात् ॥२८॥ तुषवपनवत्सारः संसारे नात्र विद्यते । गान्धवनगरीतुल्या व्यवस्था दृश्यतेऽखिला अखला ॥२९॥ मुक्त्वा त्वं सकलां चिन्ता-मेकां चिन्तां मनः ! कुरु । तां यया निर्वृतिस्थाने सुखं भुव निरन्तरम् ॥ ३० ॥ मन्त्रतन्त्रमुखैर्मूढ ! हा ! हा! त्वमीहसे सुखम् । समाधिमेकमन्त्रं नो यावत्तावत् कथं सुखम् ॥ ३१ ॥ समाधिदायकं मन्त्रं नमस्कारं विमुच्य हा ! मूढा गवेषयन्त्यन्य-मन्त्रकं दुःखव्याकुलाः ॥३२॥ औद्धत्याग्निप्रदग्धा ये मानमायामृताश्च ये । रसनेन्द्रियलुब्धा ये तेषां सौख्यं कुतो भवेत् ? ॥ ३३ ॥ रहस्यशून्यहृदया आत्मभावबहिर्मुखाः। रता गालीप्रदाने च तेषां सौख्यं कुतो भवेत् ? ॥३४॥ निष्पक्षं सुगुरुमज्ञा जानन्ति पक्षपातिनम् । भुक्तधत्तूरकाः श्वेतं यथा पीतं वदन्ति हा! ॥३५॥ माद्यसि त्वं न लक्ष्म्याश्च रागादीनां वशे नहि । योषिद्भिहियसे नैव मुह्यसे विषयैर्नहि ॥३६॥ मुच्यसे नैव सन्तोषै-र्नेच्छयालिङ्गयसे यदा। पात्यसे नैव पापैश्चेत्तदा मुक्तिः प्रिया तव ॥ ३७॥ युग्मम् ।। अनभिषङ्गतः सङ्ग-मप्रीतिपरिहारतः। द्वेषं मोहं च सज्ज्ञानात् क्रोधं च क्षमया तथा ॥ ३८॥ मानं मार्दवभावेन मायामार्जवतो जय । लोभं सन्तोषतश्चित्त ! तदा ते परमं शिवम्

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56