Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 16
________________ वैराग्यरसमञ्जरी ॥ चतुर्थ गुच्छके तत्त्चत्रयी वर्णनम् ॥ कुदेवकुगुरू ज्ञात्वा कुधर्म त्वं तथैव च । अमीभिलक्षणैश्चेतः! दरे तिष्ठेः सदा ततः ॥३॥ सुदेवसुगुरू ज्ञात्वा सुधर्म त्वं तथैव च । सेवस्व नित्यमेतानि त्रीणि तत्त्वानि लक्षणैः लब्धायां सर्वसामय्यां मिथ्यात्वतिमिरान्धकाः । सम्यक्त्वदीपहीना हा ! सत्पथं नैव जानते ॥५॥ कुदेवकुगुरू लोके धर्म च कुत्सितं तथा । एतत्त्रयं हि मिथ्यात्वं जानीहि दुःखदायकम् रागद्वेषयुतो देवो यः कुदेवः स कथ्यते । काञ्चनकामिनीलुब्धः कुगुरुयों गुरूयते हिंसया सहितो योऽत्र धर्मः सोऽस्ति कुधर्मकः । एतत्त्रये निमग्ना ये संसारं संसरन्ति ते ॥८॥ वीतरागः सुदेवः स्याद् व्रतस्थः सुगुरुस्तथा । दयाप्रधानधर्मो हि सुष्ठुधर्मो प्रकीर्तितः एतत्रयं सुमन्यन्ते ते नरा शिवगामिनः । नरदेवभवान्कृत्वा भवन्ति स्वल्पकालतः ॥१०॥ एतत्सम्यक्त्वदीपेन निरस्य मोहजं तमः । गच्छन्ति श्रेयसो मार्ग नरा द्राग्लब्धचेतनाः ॥११॥ मूलं धर्मतरोरेतद द्वारं मोक्षस्य कथ्यते । यानपात्रं भवाब्धौ च गुणानामास्पदं मतम् ॥१२॥ सर्वलक्ष्म्या निधानं हि कारणं तीर्थकृच्छ्रियः । धन्यास्ते पालयन्तीह ये सम्यक्त्वं सुखाकरम् ॥ १३ ॥ अङ्कस्थाने हि सम्यक्त्वं सर्व शून्यं ततः परम् । अङ्कस्य रक्षणे जाते शून्यानि फलदानि च ॥१४॥ कुतर्कग्रहग्रस्ता हा ! केचिद्धर्म बहिर्मुखाः । दूषयन्ति कुकर्माणो हारयन्ति जनुर्वृथा ॥१५॥ पूर्वर्षीणां समर्थानां कथनं नैव रोचते । अधर्मिभ्यश्च मूखेभ्यः प्रमेहिभ्यो घृतं यथा RECRCRARSARSAX ॥ ६

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56