Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 4
________________ वैराग्यरसमञ्जरी ॥ ॥२॥ वृन्दैरावणाष्टापदाः तपोगच्छगगनदिनमणि सूरिपुरन्दराः कटोसणाद्यनेकनरेशप्रतिबोधप्रसारिताऽहिंसाधर्मोमयः जैनरत्नव्याख्यानवाचस्पतय आचार्यपुङ्गवश्रीमद्विजयलब्धिसूरीश्वरा येगुर्जर-हिन्दी-उर्दू-संस्कृतभाषाविभूषिता अनेकग्रन्थाः विनिर्मिता भव्यानां कल्याणं कुर्वन्तः चकासति । एतद्ग्रन्थकर्तृणां चरित्रावलोकनकांक्षावद्भिः कविकुलकिरीट-कमललब्धिमहोदयकाव्यादयो ग्रन्था विलोकनीयाः । देशविरतिधर्माराधकग्रन्थमालायाः प्रथमाकतया प्राकट्यनीतोऽयं ग्रन्थो द्वितीयावृत्तितया समुन्नीयतेऽधुना । इयं वैराग्यरसमजरी द्विचत्वारिंशदधिकषट्शतश्लोकपरिमिता पञ्चमहाव्रतपालने दत्तसंकेतेव पश्चगुच्छकैर्विभक्ता विलसति तेषु प्रथमगुच्छके-मानुषभवदुर्लभतामाख्याय मनो विविधवचनैरुपदिशति । द्वितीयगुच्छ के पौगलिकपदार्थानामनित्यता समाख्यायात्मनो विवेकं ददाति । तृतीयगुच्छ के निरयक्लेशः सविस्तरो वर्णितः । चतुर्थगुच्छके सम्यग्दर्शनस्य चिन्तामणिरत्नोपमया लौकिकसर्वरत्नानां काचशकलोपमानं प्रवेद्य तत्त्वत्रयीनां प्रकृष्टत्वं प्रदाधुनिकानां विंशतिशताद्वीयानां वैमत्यं विज्ञाप्य दुण्ढकमतं खण्डनपूर्वकमपास्य तीर्थेशानां त्रिकालार्चनकर्तव्यतायाः प्रतिपादनं कृत्वा सुधर्ममहात्म्यं वर्णयित्वा शीलतपसोः प्रीढिमा प्रकाश्य समभेदं तपः प्ररूप्य द्वादशभावनायाः सविस्तरं स्वरूपं निरूप्य पिण्डस्थादिध्यानं धर्त्तव्यमित्युपदिश्य च तत्फलं कथितम् । पञ्चमगुच्छके सम्यक्त्वस्य सलक्षणपश्चलिङ्गानि पृथक् पृथक् व्यावर्ण्य युक्तिपुरस्सरं वेदान्तादिदर्शनानामलीकत्वं शाप- | यित्वा सम्यक्त्वस्य च सप्तषष्ठिमेदा निरूपिताः । ग्रन्थोऽयं धीदारिद्रयेन, यन्त्रतो, मुद्रणपत्रतो वा याः काश्चनाऽशुद्धयः स्युस्ता विद्वजनैः समुत्सृज्यावलोकनीय इत्युपरमते पालिनगरे भाद्रपदसितचतुर्थ्याम् विक्रमविजयो मुनिः। १७-९-३९

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 56